SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ६ पार्श्वाभ्युदय काव्यं दयस्त्रिषु ” इत्युभयत्राप्यमरः । जनकतनयास्नानपुण्योदकेषु जनकस्य राज्ञः तनया सीता देवी तस्याः स्नानमभिषेचनं तस्य पुण्याणि पुण्यानीव पुण्यानि परमपतिव्रतासंस्पर्शात् पुण्यरूपाणि उदकानि जलानि तथोक्तानि तेषु । अत्रोदकशब्दस्य बहुवचनं कूपसरोदीर्घिकादितीर्थविशेषं सूचयति ॥ लुब्धः अभिलाषुकः । स्नानपानाद्युपयोगमिच्छन्नित्यर्थः । " लुब्धोऽभिलाषुकः " इत्यमरः ॥ कलुषहरणे पापापसरणनिमित्ते । " कलुषं वृजिनैनोधर्महो दुरितदुष्कृतम्” इत्यमरः ॥ सिन्धोः सिन्धुनामनद्याः ॥ तीरे कूले । कूलं रोधश्व 'तीरं च इत्यमरः ॥ कपटमनसा कपटेन युक्तं मनस्तथोक्तं तेन । " कपटोsस्त्री व्याजदम्भोपधयः " इत्यमरः । तपस्यां " नमोवरिवस्तपसः क्यच्” इति क्यच् त्यः । तपश्चरणम् ॥ चक्रे विदधे ॥ हा हन्त । हा विषादशुगर्त्तिषु " इत्यमरः ॥ ३ ॥ 66 "" (6 तस्यास्तीरे मुहुरुपलवान्नूर्ध्वशोषं प्रशुष्यन् - नुद्वाहुस्सन्परुषमननः पञ्चतापं तपो यः । कुर्वन्न स्म स्मरति जडधीस्तापसानां मनोज्ञां स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ ४ ॥ १ ॥ 66 55. माः तस्या इत्यादि । कमठः जडधीः मन्दबुद्धि: ।। तस्याः सिन्धुनद्याः ॥ तीरे कूले || मुहुः पुनःपुनः । पुनः शश्वद्भीक्ष्णमसकृत्सइत्यमरः ॥ उपलवान् उपलोऽस्यास्तीति उपलवान् " अस्यास्ति " इति मतुः । " मान्तोवान्तः" इति वः । " उगिदः " इति नम् । न्यकू " इति दीर्घः । दृषदं धरन्॥ ऊर्ध्वशोषं प्रशुष्यन् । ऊर्ध्वशोषं प्रशुष्यतीति ऊर्ध्वशोषं प्रशुष्यन् । शतृत्यः । ” ऊर्ध्वात्युः शुषः " इति णम् । आतपेन सन्तप्यमानमस्तकाद्यवयवः सन् ॥ उद्वाहुः उद्गतौ बाहू यस्येति बहु "C 66 66 १ विततमवनिः इति पाठांतरं ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy