SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पार्श्वभ्युदयकाव्यं अथ द्वितीयः सर्गः। इतः पादवेष्टितानिविश्रम्याथ क्षणमिव भवान्पर्यटेत्संदिदृशुः शोभां तस्याः शतमखपुरी हेपयन्त्याः स्वभूत्या । स्निग्धश्याम वपुरुपवहन्नागराणां फणाभृ द्भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः ॥१॥ विश्रम्येति ॥ अथ उज्जयिनीगमनानन्तरे । भवान् त्वम् । क्षणमिव अल्पकालमिव । इवशब्दो वाक्याऽलङ्कारे । विश्रम्य श्रममपनीय । स्निग्धश्यामं ममृणश्यामलम् । वपुः गात्रम् । उपवहन स्वीकुर्वन् । नागराणां नगरजनानाम् । गणैः समूहैः । “समवायश्चयो गणः” इत्यमरः । फणाभृद्भर्तुः फणां बिभ्रति ते फणाभृतस्तेषां भर्तुर्नाथस्य । कण्ठच्छविः कण्ठस्य गलस्य छविः कान्तिः । “भाश्छविद्युतिदीप्तयः” इत्यमरः । इति एवम् अभिप्रायेण । सादरम् । वीक्ष्यमाणः दृश्यमानः सन् । शतमखपुरी शतमखस्य पुरी नगरीममरावतीम् । “ नगरी त्वमरावती" इत्यमरः । वभूत्या निजसम्पदा । भूतिर्भसितसम्पदि " इत्यमरः । हेपयन्त्याः विडम्बयन्त्याः । तस्याः विशालायाः । शोभां कान्तिम् । संदिदृक्षुः संद्रष्टुमिच्छुः । पर्यटेत् परितः सञ्चरेत् । भवच्छब्दप्रयोगात्त्वं विहरेत्यर्थः ॥१॥ पूर्व तावद्धवलितनभोभागमभ्रलिहाग्रं ___ कैलासाद्रिश्रियमिव हसन्मोहशत्रोनिहन्तुः। कर्मारीणां विजितमदनस्यार्हतः संचिचीर्षः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ॥२॥ १ चण्डीश्वरस्सत्यपि पाठः।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy