SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सटीकम् । ९७ उपायनमुपग्राह्यमुपहारस्तथोपदा ” इत्यमरः । 66 यस्मै तथोक्तः । स्याः भवेः ॥ ११७ ॥ स्वः सौधेषु प्रणयमचिरात्संहरिष्यस्यवश्यं मन्द्रातोद्यध्वनिषु सततारब्धसङ्गीतकेषु । हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा नीत्व खेदं ललितवनितापादरागाङ्कितेषु ॥ ११८ ॥ ३४ ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचितमेघदूतवेष्टितवेष्टिते पार्श्वाभ्युदये भगवत्कैवल्यवर्णनं नाम प्रथमः सर्गः ॥ १ ॥ स्वःसौधेष्विति ॥ अस्याः उज्जयिन्याः । मन्द्रातोद्यध्वनिषु मन्द्रो गम्भीरः आतोद्यानां ध्वनिः शब्दो येषु तेषु । सततारब्धसङ्गीतकेषु सततमारब्धं सङ्गीतं येषु तेषु । कुसुमसुरभिषु सुमनः सुगन्धिषु । ललितवनितापादरागाङ्कितेषु ललितवनिताः सुन्दरस्त्रियः “ ललितं सुन्दरम् " इति शब्दार्णवे । तासां पादरागेण लाक्षारसेन अङ्कितेषु चिह्नितेषु सौधेषु । अध्वखिन्नान्तरात्मा अध्वना मार्गेण खिन्नः अन्तरात्मा यस्य सः तथोक्तस्त्वम् । खेदं श्रमम् । नीत्वा अपनीय । स्वःसौधेषु स्वर्गहर्म्येषु । प्रणयं स्नेहम् । अचिरात् शीघ्रात् । अवश्यं निश्वयेन । संहरिष्यसि अपहरिष्यसि । स्वर्गसौधेभ्योपि विशालाहर्म्याणि परमोत्कृष्टानीति तात्पर्यम् ॥ ११८ ॥ इत्यमोघवर्षपरमेश्वर परमगुरुश्री जिनसेनाचार्यविरचितमेघदूत वेष्टितवेष्टिते पार्श्वाभ्युदये तद्व्याख्यायां च सुबोधिकाख्यायां भगवत्कैवल्यवर्णनं नाम प्रथमः सर्गः ॥ १ ॥ १ अध्वस्त्रेदं नयेथा इत्यपि पाठः । २ लक्ष्मीं पश्यन् इत्यादयोऽपि पाठाः ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy