SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २६८ क्षुधादिपरिषहः । १६४ ॥ भिक्षायां न च लभ्यतेऽशनजल शुद्धं कदाचित् कचिद। दैन्यं नात्र तृषः क्षुधः परिषहो जेयस्तपोभावतः॥ ग्रीष्मे वा शिशिरे भवेत्परिषहस्तापस्य शीतस्य वा। शौर्येणैव पराजयः किल तयोः कार्यो बलादात्मनः॥ मशकादिपरिषहः। १६५ ॥ क्वापि स्युर्मशकादयस्तदपि नो ग्लानिः सतां शोभते। नो दैन्यं वसनाद्यलम्भजनितं कष्टेऽपि नैवारतिः ॥ नो स्त्रीभिश्चलनं श्रमेण पथि नो खिद्येत चित्ते कदा। स्थित्यकाऽऽसनतश्चिरेण मनसोधैर्य न मुञ्चन्मनाक॥ शय्यादिपरिषहः । १६६ ॥ नो प्राप्ता वसतिः शुभा तदपि नो चित्ते विषादोदयः। श्रुत्वाऽऽक्रोशवचोऽपि नैव सहसा शान्तो मुनिः कुप्यति नो द्विष्टे वधबन्धनेऽपि न तथा भिक्षाटने लज्जते । नाऽलाभे न गदोदये निजतनोश्चिन्तां विधत्ते पुनः॥ तृणस्पर्शादि परिषहः। १६७ ॥ दर्भादौ शयनेऽपि संयमिमुनिः कुर्यान्न खेदं मनाङनो ग्लानिं मलिनाम्बरादिभिरथो गर्वं न सत्कारतः॥ औत्कट्येऽपि मतेन माद्यति तथा मान्येऽपिनो खिद्यति। मिथ्याऽऽडम्बरतो न मुह्यति पुनर्जित्वा रिपून्नान्तरान् ॥
SR No.022641
Book TitleKarttavya Kaumud Dwitiya Granth
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy