SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १० रथिकस्त्वाह नैतेभ्यो, मामेकमपि बाधते । प्रियेऽनपत्यता यत्तन्मामतीव विबाधते ।। ५४ ।। सुलसोचे सुतार्थे त्वमन्यां कन्यां विवाहय । स्वाम्यूचे कृतमन्याभिः कन्याभिरिह जन्मनि । ५५ ।। , ततोऽधिकं तपोदानशीलार्चाभावनादिके । सुधर्मे सुलसा तस्थौ स हि सर्वत्र कामधुक् ||५६।। इतश्च दिवि देवेन्द्रः, सदस्येवमवर्णयत् । श्राविका सुलसा धर्मे, निश्चला शैलराजवत् ।। ५७ ।। तद्वचोऽश्रद्दधानोऽत्रागत्यौकस्त्रिदशोऽविशत् । कृत्वा नैषेधिकीं साधुवेषेण सुलसागृहे ।। ५८ ।। श्रीश्रेणिकचरित्रम् । तदा जिनाच कुर्वती, सुलसा द्रागुपस्थिता । भक्त्या नत्वा च तं साधुं पप्रच्छागमकारणम् ।। ५९ ।। स प्राहात्र पुरे भद्रे !, मुनिग्र्लानोऽस्ति तत्कृते । तैलाय लक्षपाकाय, श्राविकेऽहमिहागमम् ||६०।। 7 तुष्टाऽथ सुलसा तैलकुम्भमादाय पाणिना । प्रतिलम्भयितुं साधुं यावदागाच्छनैः शनैः । । ६१ ।। तावत् सुपर्वणाऽचिन्त्यशक्तिना स्फोटितः कुटः । तत्तैलमपि कुत्रापि, सर्वमप्यगमद् द्रुतम् ।। ६२ ।। इत्यस्फोटि द्वितीयोऽपि, तृतीयोऽपि घटः क्षणात् । द्रव्यहान्या सुबह्व्याऽपि व्यषीदत् सुलसा न तु ।। ६३ ।। दध्यौ चेदं मुनी ग्लाने, ययौ यन्नोपयोगिताम् । निर्दोषौषधमप्यत्र, ममेयं ही प्रमादिता ।। ६४ ।।
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy