SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्रीश्रेणिकचरित्रम् । तस्मिन् कुशाग्रनगरे, प्रसेनजिदिलापतिः । धारिण्याख्यामहादेव्या, उदरे समवातरत् ।।४३।। सा देवी समयेऽसूत, सुनुमन्यूनलक्षणम् । सर्वर्ध्या विदधे पित्रा, तस्य जन्मोत्सवो महान् ।। ४४ ।। विशिष्टमतिधृत्यादिगुणश्रेणिभृदित्ययम् । ततः श्रेणिक इत्याख्यां पिता तस्य स्वयं व्यधात् ।। ४५ ।। श्रेणिको ववृधे रूपसौभाग्यादिभिरन्वहम् । कलाभिर्नव्यनव्याभिः शुक्लपक्ष इवोडुपः । । ४६ ।। " शुशुभे श्रेणिकाङ्गश्रीः, यौवनेन विशेषिता । यथा मधुश्रीर्मलयमारुतेन विशेषिता ।। ४७ ।। इतोऽत्राभूत् पुरे नागरथिको नागवल्लभः । पत्नी च सुलसा तस्य, धर्म्मकर्म्मसु लालसा ।।४८ ।। तयो: सदैकमनसोर्दम्पत्योः प्रीतिपात्रयोः । भूयान् कालः सुखेनागाद्यथा भारुण्डपक्षिणोः ।। ४९ ।। परं गाढमपुत्रत्वं, हृदि नागस्य शल्यवत् । बाधतेऽहर्निशं यद्वा, चक्षुषोः कर्करो यथा ।। ५० ।। चिन्ताप्रपन्नमन्येद्युः सुलसोचे निजं पतिम् । युष्माकं बाधतेऽङ्गे किं, कश्चिच्छूलादिरामयः ? ।। ५१ ।। अप्रसन्नो नृपः किं वा, नादृतं स्वजनेन वा T मित्रेण किमवज्ञातं किञ्चित्परिजनेन वा ? ।। ५२ ।। 1 सदाऽऽदेशविधायिन्या, मयाऽऽज्ञा काऽपि खण्डिता ? यदेवं ताम्यसि स्वान्ते, स्वामिंस्तन्मां निवेदय ।।५३।। ९
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy