SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । निःशेषमम्बुधरधीरगभीरनादै -स्तूर्यैर्बभूव मुखरं नरनाथवेश्म । पौरो जनस्त्वरितमेव निजे निजेऽसौ गेहे महोत्सवमकारयत प्रहृष्टः ।। ७१ ॥ खस्माबहिर्भवनतः प्रकटं निरित्य नृत्यान्यतन्वत गणो गणिकाजनानाम् । लब्धोऽधुना वसुमति प्रभुरद्वितीयो ___ नन्द त्वमित्यजनि जन्मवतां प्रघोषः ॥ ७२ ॥ तुष्टया ददत्वसुतजन्म निवेदयन्यो देयं न देयमिदमित्यथवा क्षितीशः। . नाजीगणंत्प्रमदविह्वलचित्तवृत्ति विक्षिप्तवृत्ति हि मनो न विचारदक्षम् ॥ ७३ ॥ गायत्प्रनृत्यदभितो रभसेन वल्ग दुन्मत्ततामिव जगाम पुरं समस्तम् । तत्राभवन्न खलु कोऽपि स यस्य नान्त __ जज्ञे विकासि हृदयं सहसा द्विषोऽपि ॥ ७४ ॥ सर्वज्ञं कनकमयैः समर्च्य पुष्पैः कल्याणेऽहनि सह तेन वंशवृद्धैः । श्रीवर्मेत्यवनिभुजाथ तस्य नाम श्रीशब्दानुगतमकारि मङ्गलाय ॥ ७५ ।। विदधदखिलास्तेजस्तीव्रान्पराननतान्नता नवनिममितामोजोभिः वशं विवशां नयन् । निधिशतमहालाभैर्भूभृच्छतप्रहितैर्धनै रुदयनिलये जाते तस्मिन्ननन्द स नन्दने ॥ ७६ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये तृतीयः सर्गः । १. निर्गत्य. २. प्राणिनाम्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy