SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२ काव्यमाला | संक्षेपतो गिरमिमामभिधाय सम्यगानन्द्य भूमिपतिमिष्टेनिबन्धनेन । धामेप्सितं मुनिरगान्नृपतिश्च राजधानीमणुव्रतविभूषणभूषिताङ्गः ॥ ५८ ॥ पुंसां पुरोपचितपुण्यनिबद्धमिष्ट मित्याकलय्य निबबन्ध मतिं स धर्मे । तत्रोन्मुखं भवति भाग्यवतां हि चेतो यत्संपदां नियतमंङ्गमनागतानाम् ॥ ५९ ॥ दानेन संयमिजनस्य जिनार्चनेन तस्य प्रभोरविरतं नयतो दिनानि । प्रक्षोभिताखिलसुरासुरनागलोकं नान्दीश्वरं परमपर्व समाससाद ॥ ६० ॥ तस्मिन्विधाय महतीमुपवासपूर्वी पूजां जगद्विजयिनो जिनपुंगवस्य । स्नानं समीहितनिमित्तमधस्तदीय बिम्बस्य स प्रविधे सहितोऽग्रदेव्या ॥ ६१ ॥ प्रह्लादनं विदधती शशिनः कलेव संपादयन्त्यभिमतं कुलदेवतेव । गर्भे कियद्भिरथ सा दिवसैर्बभार मुक्ताफलं परममम्बुधिशुक्तिकेव ॥ ६२ ॥ किंचिद्वपुः शिथिलतामगमत्तदानी - मापाण्डुरं वदननीररुहं बभूव । गर्भस्थ बालगुण भूरिभरादिवागा मन्दापि मन्दतरतां गतिरायताक्ष्याः ॥ ६३ ॥ नीलानं प्रसृतपाण्डिम धारयन्ती वक्षोरुहद्वयमधःकृत चन्द्रकान्ति । १. अभिलषितप्ररूपणेन. २. प्रधानं कारणम्. ३. आजगाम.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy