SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] चन्द्रप्रभचरितम् । संपत्स्यते तव मनोरथ एष शीघ्र__ मेकान्ततो यदि भवेन्न विधिर्विपक्षः ॥ ३९ ॥ सन्त्येव केवलदृशोऽवधिलोचनाश्च तीर्थे जिनस्य मुनयो विविधैर्द्धियुक्ताः। जाग्रत्स्वपत्प्रचलदप्रचलच्च विश्वं येषामिदं करतलस्थितवच्चकास्ति ॥ ४० ॥ तेभ्योऽधिगम्य तव संततिलोपहेतु___ मभ्युद्यतः प्रतिविधातुमहं यतिष्ये । कैर्वचोभिरिति लोकपतिः प्रियायाः शोकापनोदमकरोत्करदीकृताशः ॥ ४१ ॥ युक्तोऽन्यदा क्षितिपतिः स निजैः सुहृद्भि रालिङ्गितं समधिगम्य वसन्तलक्ष्म्या । क्रीडावनं समवलोकितुमभ्ययासी दुद्दामकौतुकरसप्रसरप्रणुन्नः ॥ ४२ ॥ नृत्यच्छिखण्डिनि मृदुक्कणदन्यपुष्टे सुखादुसुन्दरफले सुमनःसुगन्धौ । तस्मिन्वने शिशिरमन्दमरुत्प्रचारे सर्वेन्द्रियोत्सवकरे विजहार भूपः ॥ ४३ ॥ अत्रान्तरे पृथुतपःश्रियमुन्नतश्री__ रुन्मीलितावधिदृशं सुविशुद्धदृष्टिः । तारापथादवतरन्तमनन्तसंज्ञ मैक्षिष्ट चारणमुनिं सहसा नरेन्द्रः ॥ ४४ ॥ रोमाञ्चचर्चिततनू रभसेन गत्वा . भूपस्तमालतरुमूलगतस्य तस्य । १. सर्वथा. २. नानाबुद्ध्यादिलब्धिसहिताः. ३. मनोहरैः. ४. कोमलकूजत्कोकिले. ५. अम्बरात्. ६. रोमहर्षचर्चितबारीरः.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy