SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २८. काव्यमाला | चन्द्रोज्झितां रविरलंकुरुते घनाना वीथीं सरोजनिकरः सरसीमहंसाम् । पुत्रं विहाय निजसंततिबीजमन्यो न त्वस्ति मण्डनविधिः कुलपुत्रिकाणाम् ॥ ३३ ॥ तेनोज्झितां निजकुलैकविभूषणेन सौभाग्यसौख्यविभवस्थिर कारणेन । मां शक्नुवन्ति परितर्पयितुं विपुण्यां न ज्ञातयो न सुहृदो न पतिप्रसादाः || ३४ ॥ कृत्वा विषादमिति दुःस्थितचित्तवृत्ति र्दुःखं निवेद्य मयि तल्पतले न्यपप्तत् । संबोधितापि न मया बहुभिः प्रकारैः शोकं विमुञ्चति मनागपि देव देवी || ३५ ॥ संख्या मुखादिति निशम्य विषादहेतुं निःश्वस्य किंचिदथ भूमिपतिर्बभाषे । शोकः शरीरहृदयेन्द्रियशोषहेतु युक्तो न देवि तव वस्तुनि दैवसाध्ये ॥ ३६ ॥ दुःखेन ते प्रथममस्म्यहमेव दुःखी मद्दुःखतो भवति सर्वजनस्य दुःखम् । इत्थं समस्तजनतापरितापहेतो र्मा गाः कृपावति शुचो वशमुद्धतायाः ॥ ३७ ॥ जन्मान्तरे शुभमथाप्यशुभं यदेव यैरर्जितं स्वपरिणामवशेन कर्म । तद्योग्यमेव फलमिष्टमनीप्सितं वा तैः प्राप्यते किमिति शोचसि हेतुहीनम् ॥ ३८ ॥ अत्यन्तदुर्घटमिदं नहि वस्तुनोऽस्य निष्पत्तिरित्यलसगामिनि मावमंस्थाः । १. दैवमित्यर्थः.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy