SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २ सर्गः चन्द्रप्रभचरितम् । २१ प्रासादशृङ्गसंलमरलोपलमरीचिभिः । सदैवान्तरिता यत्र ज्योतिर्गणविभाभवत् ॥ १२६ ।। चन्द्रकान्तस्रुतेर्यत्र सूर्यकान्तोद्भवामितः । मिमीते सालसंरुद्धरविचन्द्रोदयं जनः ॥ १२७ ।। यत्प्रासादशिरोलमपद्मरागांशुभिर्नभः । भिन्नं करोत्यकाण्डेऽपि संध्याशङ्कां शरीरिणाम् ॥ १२८ ।। वासराधिपतिस्तुङ्गप्रतोलीशिखरं शनैः । यत्राधिरुह्य पूर्वाह्ने प्रपूर्णकलशायते ॥ १२९ ।। प्राकारशिखरासन्नस्तारतारकदम्बकैः । यत्र दीपोत्सवभ्रान्तिस्तन्यतेऽनुदिनं निशि ॥ १३० ।। प्राकारः परितो यत्र शृङ्गरुत्तम्भितोडुभिः । नाकावलोकनोत्कण्ठां बिभ्राण इव भासते ॥ १३१ ।। मानोन्नता महाभोगा मैत्तवारणशालिनः । बहुभूमियुता यत्र प्रासादाः पार्थिवोपमाः ॥ १३२ ॥ अम्बुना घनकिंजल्कच्छादितेन निरन्तरम् । स्वीकुर्वाणा कचिल्लक्ष्मी हिरण्यखचितक्षितेः ॥ १३३ ।। तीरजैस्तरुसंतानैः पयसि प्रतिबिम्बितैः । पोतालोपवनारेका कुर्वत्यन्यत्र पत्रिणाम् ॥ १३४ ।। बिभ्रती काशसंकाशपक्षविक्षेपशोभिनः । हंसान्क्वापि मरुल्लोलान्फेनपुञ्जानिवात्मनः ॥ १३५ ॥ तटपादपसंरुद्धैर्निष्कम्पसलिलानिलैः । मुग्धस्त्रीणां वितन्वाना कापि स्फटिकभूभ्रमम् ॥ १३६ ।। १. रत्नपाषाणकिरणैः. २. जानीते. ३. तमोहरोडुसमूहै. ४. स्थगिततारकैः ५. मा. नेन परिमाणेनावलेपेन च. ६. परिपूर्णतासहिता गरिष्ठभोगाश्च. ७. प्रग्रीवराजमानाः प्रभिन्नगजशोभिनश्च. ८. सुवर्णनिर्मितभूमेः. ९. पातालवनभ्रान्तिम्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy