________________
श्री केशरीकेवली चरित्रम्
२५१ क्व तत्ते चरितं नाथऽक्व चायं केवलोदयः । इति क्षितिभृता पृष्टस्ततो व्याचष्ट केवली ॥५९॥ अन्वयः- (हे) नाथ ! ते चरितं क्व? अयं च केवल-उदयः क्व?
इति क्षितिभृता पृष्टः केवली व्याचष्ट ॥५९॥ राजन्नाजन्म तत्तादृक् पापभाजोऽप्यभून्मम । श्रीरियं मुनिवाग्लब्धसामायिकमनोलयात् ॥६०॥ अन्वयः- (हे) राजन् ! आजन्म तत् तादृक् पापभाजः अपि मम इयं
श्रीः मुनिवाक्-लब्ध 'सामायिक-मनोलयात् अभूत् ॥६०॥ यद्वर्षकोटितपसामप्यच्छेद्यं तदप्यहो । कर्म निर्मूल्यते चित्तसमत्त्वेन क्षणादपि ॥६१॥ अन्वयः- वर्षकोटि-तपसां अपि अच्छेद्यं यत् कर्म, तद् अपि अहो !
चित्त-समत्वेन क्षणादपि निर्मूल्यते ॥६१॥ इति श्रुत्वा प्रमुदितो जगाम नगरी नृपः । बोधयन्वसुधां सोऽपि विजहार महामुनिः ॥६२॥ अन्वयः- इति श्रुत्वा प्रमुदितः नृपः नगरी जगाम,
वसुधां बोधयन् सः महामुनिः अपि विजहार ॥६२॥ पितृघातकरे सर्वजनसंतापकारिणि । चौरेऽपि दत्तनिर्वाणं सेव्यं सामायिकं बुधैः ॥६३॥ अन्वयः- पितृघातकरे सर्वजनसंतापकारिणि,
चौरे अपि दत्तनिर्वाणं सामायिकं बुधैः सेव्यम् ॥६३॥
Jइति सामायिकवतमाहात्म्योपदर्शने |
केसरीकेवली चरित्रं समाप्तम् ॥
१. सामायिकमनोलयात् सामायिकमां मन लीन थवाथी ।