SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २४५ श्री केशरीकेवली चरित्रम् तपोधनतपःशीलवतीशीलप्रभावतः तत्क्लेशसोद्यमः सोऽद्य मम चौरोऽस्तु गोचरः ॥२६॥ इत्युक्त्वाल्पपरिवारः पुरीमयमलोकत । 'प्रत्यास्थानं 'प्रतिद्यूताश्रयं प्रतिसुरालयम् ॥२७॥ . त्रिभिर्विशेषकम् ॥ अन्वयः- ततः कोप-संतप्तं लोचनद्वयं पुरप्रेक्षा कृपाश्रुषु निमज्जयन् ॥२५॥ तपोधनतपः-शीलवतीशील-प्रभावतः तत् क्लेश-सोद्यमः सः चौरः तु अद्य मम गोचरः अस्तु ॥२६॥ इति उक्त्वा अल्पपरिवारः व्यथातुरः अयं क्षितिपतिः प्रति-आस्थानं प्रति- द्यूत-आश्रयं, प्रति सुरालयं पुरीम् अलोकत॥त्रिभिर्विशेषकम्॥२७॥ चौरचिह्न क्वचित् किञ्चिदप्यनालोकयन् नृपः । जगामाक्षामसङ्कल्पः पुरीपरिसरावनिम् ॥२८॥ अन्वयः- किंचिद् अपि चौर-चिह्नं क्वचित् अनालोकयन् । अक्षाम-सङ्कल्पः नृपः पुरीपरिसरावनिं जगाम ॥२८॥ वापी-कूप-तडागादिस्थानेष्वपि निरूपयन् । न प्राप भूपतिः क्वापि चौरसञ्चारचेष्टितम् ॥२९॥ अन्वयः- वापी-कूप-तडाग-आदि स्थानेषु अपि निरूपयन् भूपतिः क्वापि चौर-सञ्चारचेष्टितं न प्राप ॥२९॥ मध्याह्नऽथ धरानेतुर्वनान्तर्भुवि तस्थुषः । ' नासामासादयद् गन्धः कर्पूरागुरुधूपभूः ॥३०॥ १. प्रत्यास्थानं दरेक सभामां । २. प्रतिद्यूताश्रयं जुगार रमवाना दरेक स्थळे । ३. प्रति सुरालयम्=दरेक दारूना पीठामा ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy