SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्री सुरसेन-महासेन चरित्रम् रौद्रातधी-शस्त्रदान-पापशिक्षा-प्रमादिताः । अनर्थदण्डस्तत्त्यागः स्यात्तृतीयं गुणव्रतम् ॥१॥ अन्वयः- रौद्र-आर्त्तधी-शस्त्रदान-पापशिक्षा-प्रमादिताः अनर्थदण्डः, तत् त्यागः तृतीयं गुणवतं स्यात् ॥१॥ अनर्थदण्डविरामव्रतधीरा महोदयम् । लभन्ते शुभसंभारभासुराः सुरसेनवत् ॥२॥ अन्वयः- अनर्थदण्ड-विराम-व्रत-धीराः शुभसंभारभासुराः सुरसेनवत् ___ महोदयं लभन्ते ॥२॥ तथाहि देवपूजोद्यद् गन्धान्धैर्मधुपैर्मुहुः । गीतप्रशस्तिरस्ति श्रीबन्धुरा बन्धुरा पुरी ॥३॥ अन्वयः- तथाहि- देवपूजा-उद्यद् गन्धान्धैः मधुपैः मुहुः गीतप्रशस्तिः श्रीबन्धुरा बन्धुरा (इति) पुरी अस्ति ॥३॥ श्रीवीरसेन इत्युग्रवीरसेनाशिरोमणिः । वृत्तैः पवित्रैरश्यामस्तस्यामजनि भूधवः ॥४॥ अन्वयः- तस्यां पवित्रैः वृत्तैः अश्यामः उग्रवीरसेना-शिरोमणिः श्री वीरसेनः इति भू-धवः अजनि ॥४॥ १. श्रीबन्धुरा=श्रिया बन्धुरा लक्ष्मीथी सुंदर अत्यंत धन संपत्तिथी समृद्ध लोकोवाळी। २. वृत्तं = आचरण । ३. अश्यामः (न श्यामः इति अश्यामः) उज्ज्वळ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy