SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २१० सुलभचरित्राणि-२ अन्वयः- अथ समग्रे अपि जने अभितः अन्न-संग्रह-व्यग्रे (सति) देशस्य मध्ये का अपि दुर्भिक्ष-वर्णिका विवेश ॥१०॥ अन्न- संग्रह-विक्रीत-सर्वालङ्करणो जनः । 'फाल्गुनच्युतपत्रालिशालजालवदाबभौ ॥११॥ अन्वयः- अन्न-संग्रह-विक्रीत-सर्व-अलङ्करणः जनः फाल्गुन-च्युत-पत्रालि-शालजालवद् आबभौ ॥११॥ निर्धान्या निर्धनाः काश्चिद् व्रजिष्यन्ति प्रजाः क्व मे । शुचेत्यचिन्तयद्राजा प्राजापत्येन लज्जितः ॥१२॥ अन्वयः- निर्धान्याः निर्धना: मे काश्चित् प्रजाः क्व व्रजिष्यन्ति इति प्राजापत्येन लज्जितः राजा शुचा अचिन्तयत् ॥१२॥ इति नित्यं ज्वलच्चितातप्तस्यो:शितुर्मुदे । आषाढस्याद्य एवाह्नि पौरस्त्यपवनो ववौ ॥१३॥ अन्वयः- इति नित्यं ज्वलचिंतातप्तस्य उर्वीशितुः मुदे आषाढस्य आद्ये एव अह्नि पौरस्त्य-पवनः ववौ ॥१३॥ अथाङ्कुर इव प्राच्यां सुभिक्षफलशाखिनः । अम्बुदस्य लवोऽदर्शि मुदितेन महीभुजा ॥१४॥ अन्वयः- अथ प्राच्यां (दिशि) सुभिक्ष-फल-शाखिनः अङ्कुरः इव अम्बुदस्य लवः मुदितेन महीभुजा अदर्शि ॥१४॥ श्रीरिवाभ्युदयद्भाग्यभरस्य जलभृल्लवः । अवर्धतातिमात्रं स धात्रीश्वरमुदा समम् ॥१५॥ १. फाल्गुणच्युतपत्रालिशालजालवद्=फागण महिने खरी गयेला पांदडावाळा शालवृक्ष जेवा (लोको) । २. उर्वीशितुः-उर्वी पृथ्वी, ईशितुः (ईशितृनुं ष.ए.व.) राजा । ३. पौरस्त्यपवनः पूर्व दिशानो पवन ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy