________________
१९९
श्री सिंहश्रेष्ठिचरित्रम्
क्षम्यतामपराधो नः सकटूक्तिपटूकृतः । उत्तिष्ठतं द्रुतं यामः स्वामिनौ ! नागपत्तनम् ॥५१॥
अन्वयः - सकटु- उक्तिपटूकृतः नः अपराधः क्षम्यतां (हे) स्वामिनौ ! द्रुतम् उत्तिष्ठतं नागपत्तनं यामः ॥ ५१ ॥ मत्वा वृत्तमिदं भूपः कुप्यन् यन्त्रे तिलानिव ।
दुःखश्यामतनूनस्मान्सान्वयान्पीलयिष्यति ॥५२॥
अन्वयः- इदं वृत्तं मत्वा कुप्यन् भूपः दुःख-श्याम-तनून् सान्वयान् अस्मान् यन्त्रे तिलान् इव पीलयिष्यति ॥५२॥
तत्कृपाब्धी कृपां कृत्वा पश्यतं जल्पतं च नः । दृग्भिः प्रसादसार्द्राभिः स्मितधौताधरैर्मुखैः ॥५३॥ अन्वयः- तत् (हे) कृपाब्धी ! कृपां कृत्वा प्रसादसार्द्राभिः दृग्भिः पश्यतं, स्मितधौत- अधरैः च मुखैः जल्पतम् ॥५३॥ व्यर्थीभूयाथ सचिवैरित्यादिचटुवादिभिः । स्वरूपमाशु भूपस्तज्ज्ञापितः सत्वरैश्चरैः ॥५४॥ अन्वयः - अथ इत्यादिचटुवादिभिः व्यर्थीभूय सचिवैः सत्वरैः चरैः आशु तत्स्वरूपं भूपः ज्ञापितः ॥ ५४ ॥ बद्ध्वा विवाह्यस्तनुजः सिंहो वध्यस्तु वैरिवत् । इति कुप्यन्नृपोऽप्यागाद् वाहनैर्वेगवत्तरैः ॥५४॥ अन्वयः- तनुजः बुद्धवा विवाह्यः सिंहः तु वैरिवद् वध्यः,
इति कुप्यन् नृपः अपि वेगवत्तरैः वाहनैः आगात् ॥५४॥ ईदृग् विरुद्धबुद्धिस्तौ स ददर्श महामुनी । सेव्यमानपादौ व्याघ्रद्वीपिसिंहादिजन्तुभिः ॥५६॥