SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८० सुलभचरित्राणि-२ अहो ये शक्रविक्रान्तिभाजस्तेऽप्यरिभूभुजः । धर्मप्रभावाहुःकीर्तिनिलयं विलयं ययुः ॥६०॥ अन्वयः-अहो ! ये अरिभूभुजः शक्रविक्रान्तिभाजः, ते अपि धर्म प्रभावात् दुःकीर्तिनिलयं विलयं ययुः ॥६०॥ मां धर्मः कलयन् सेवमानमल्पपरिग्रहम् । महापरिग्रहाशत्रूञ्जेतुं भेजे सहायताम् ॥६१॥ अन्वयः-सेवमानं अल्पपरिग्रहं मां कलयन् धर्मः महापरिग्रहान् शत्रून् जेतुं सहायतां भेजे ॥६१॥ तदहं यद्यमुं सेवे त्यक्ताशेषपरिग्रहः । तदन्तरारिभङ्गेऽपि भवत्ययमुपक्रमी ॥६२॥ अन्वयः- तद् यदि त्यक्ताशेष-परिग्रहः अहं यदि अमुं सेवे, तद् अन्तरङ्गारिभङ्गे अपि अयं उपक्रमी भवति ॥६२॥ इति संचिन्त्य शृङ्गारसुन्दरीकुक्षिसंभवम् । सुतं शृङ्गारसेनं स्वे पदे विद्यापतिर्यधात् ॥६३॥ अन्वयः- इति संचिन्त्य विद्यापतिः शृङ्गारसुन्दरी-कुक्षि-संभवं शृङ्गारसेनं सुतं स्वे पदे न्यधात् ॥६३॥ पुरः संयमसूरीणामुरीकृत्य व्रतं स्वयम् ।। कल्याणमयमात्मानं शुद्धं चक्रे तपोऽग्निना ॥६४॥ अन्वयः- संयमसूरीणां पुरः स्वयं कल्याणमयं व्रतं उरीकृत्य, तपोऽग्निना आत्मानं शुद्धं चक्रे ॥६४॥ पूरितायुरियाय द्यां विद्यापतियतिस्ततः । मामर्त्यभवैर्भेजे पञ्चभिः परमं पदम् ॥६५॥
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy