SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १७६ सुलभचरित्राणि - २ अन्वयः - इति प्रीतमना नक्तं सुप्तः, स्वप्ने आनन्द - सुन्दरदृशा श्रिया शुभ-आशयः स रयात् बभाषे ॥३७॥ . तद् बलाद्दुर्बलं दैवं कुर्वद्भिर्गर्वगर्भितैः । तादृग्भिर्दानसुकृतैः कृतैवाहं त्वयि स्थिरा ॥ ३८ ॥ अन्वयः- तत् बलात् दैवं दुर्बलं कुर्वद्भिः गर्वगर्भितैः तादृग्भिः दानसुकृतैः अहं त्वयि एव स्थिरा कृता ||३८|| अत्यर्थपुण्यपापाना - मिहैव फलमश्नुते । इति सूक्तं त्वयाकारि मतिसार ! यथातथम् ॥३९॥ अन्वयः- अत्यर्थपुण्यपापानां फलं इह एव अश्नुते इति सूक्तं (हे) मतिसार ! त्वया यथातथं अकारि ॥ ३९ ॥ कदाचन न मुञ्चामि तदहं सदनं तव । यथेच्छं भाग्यभङ्गिभिरुत्संगीकृत्य भुङ्क्ष्व माम् ॥४०॥ अन्वयः - तद् अहं तव सदनं कदाचन न मुञ्चामि, भाग्य-भङ्गिभिः उत्संगीकृत्य मां यथेच्छ भुङ्क्ष्व ||४०|| विनिद्रः कथयित्वाथ निशीथे स्वप्नसङ्कथाम् । स प्रिया प्रतिज्ञैकलीलापदमिदं जगौ ॥४१॥ अन्वयः - अथ निशीथे विनिद्रः स प्रियाऽग्रे स्वप्नसंकथां कथयित्वा प्रतिज्ञा - एक - लीलापदं इदं जगौ ॥ ४१ ॥ श्रीदानव्यसनेनैव भोगमात्रफलेन हा । जन्म यास्यति नौ मुक्तिफलेन तपसा विना ॥४२॥ अन्वयः - हा ! श्रीदानव्यसनेन एव भोगमात्रफलेन नौ जन्म मुक्तिफलेन तपसा विना यास्यति ॥४२॥
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy