________________
सुलभचरित्राणि - २
१७४
अन्वयः - प्रमोद-विशद - आशयः धीमान्,
धर्मध्यान-धुरन्धरः सः इति परिग्रहं प्रमाय दिनं निनाय ॥२६॥ धनं विनार्थिनामास्यं दर्शनीयं प्रगे कथम् । नक्तं सुप्ते जने युक्ता देशान्तरगतिस्ततः ॥२७॥ इति शृङ्गारसुन्दर्या समालोच्य सुप्तवान् । निशीथेऽभ्युत्थितश्चायं यावद्देशान्तरोन्मुखः ॥२८॥ तावत्तावद्भिरेव श्रीपुरैरापूर्णमालयम् । आलोक्य विस्मयस्मेरचित्तश्चित्तप्रियां जगौ ॥२९॥ (त्रिभिर्विशेषकम् ) ॥
अन्वयः- धनं विना प्रगे अर्थिनां आस्यं कथं दर्शनीयं, ततः नक्तं जने सुप्ते देशान्तरगति: युक्ता ॥२७॥
इति शृङ्गारसुन्दर्या समं आलोच्य निशीथे सुप्तवान्, अभ्युत्थितश्च यावद् देशान्तरोन्मुखः ॥२८॥ तावद् तावद्भिः एव श्रीपुरै: आलयं आपूर्ण आलोक्य विस्मयस्मेर-चित्तः अयं चित्तप्रियां जगौ ॥२९॥ त्रिभिर्विशेषकम्॥ दशमेऽहनि दैवेन कृष्यमाणैव यास्यति । नेदानीं दीयमानाऽपि श्रीरियं याति मद्गृहात् ॥३०॥ अन्वयः- इयं श्रीः दशमे अहनि दैवेन कृष्यमाणा यास्यति, इदानीं दीयमाना अपि मद्गृहात् न याति ||३०||
न स्याददानं दानं वा स्थैर्यास्थैर्यकृते श्रियः ।
मुधा कृपणतां मूढा रूढामात्मनि तन्वते ॥३१॥ अन्वयः- श्रियः स्थैर्य - अस्थैर्यकृते अदानं दानं वा न स्यात्, मूढाः आत्मनि मुधा रूढां कृपणतां तन्वते ॥३१॥