________________
२७९
श्री मित्रानन्द मन्त्रीश्वर चरित्रं अन्वयः- अथ गज-वाजिरथ आभोगमग्न-निस्वान-निस्वनः
मित्रानन्दः तैः "बलैः तत्पुरं 'वलयामास ॥२०॥ कश्चकार पुरीरोधमिति बोधकृते नृपः । .. हेरिकान्प्रेरयामास, तान्प्रेक्ष्य सचिवोऽब्रवीत् ॥२१॥ अन्वयः- कः पुरीरोधं चकार ? इति बोधकृते नृपः हेरिकान् प्रेरयामास,
तान् प्रेक्ष्य सचिवः अब्रवीत् ॥२१॥ भूजागर्वपराभूतभूरिभाग्यभरोद्भवः । अये ! मद्वचसा वाच्यो भवद्भिरिति भूपतिः ॥२२॥ अन्वयः- अये ! भवद्भिः भूजा-गर्व-पराभूत-भूरि-भाग्यभर-उद्भवः
____ भूपतिः मद् वचसा इति वाच्यः ॥२२॥ पुण्याप्तसैन्यसन्दर्भो मित्रानन्दः समागमत् । विक्रमाक्रान्तविश्वोऽसि संप्रहर्तुं बहिर्भव ॥२३॥ अन्वयः- पुण्य-आप्त सैन्य-सन्दर्भः मित्रानन्दः समागमत्, (त्वं) विक्रम
-आक्रान्तविश्वः असि संप्रहर्तुं बहिः भव ॥२३॥ एवमाभाष्य संभूष्य प्रहिताः सचिवेन ते । गत्वा व्यज्ञपयन् राज्ञे सर्वमथ यथातथम् ॥२४॥ अन्वयः- एवं आभाष्य संभूष्य सचिवेन प्रहिताः ते,
अथ गत्वा राज्ञे सर्वं यथातथं व्यज्ञपयन् ॥२४॥ स्वस्थीभूयाथ भूजानिः कैश्चित् परिवृतो जनैः । कृती तत्र ययौ यत्र मित्रानन्दः स्वयं स्थितः ॥२५॥
१. आभोगमग्न जग्यामां भरायेला । २. निस्वान-शब्द, अवाज । ३. निस्वन=शब्द, अवाजवाळो थयेलो (अर्थात् समृद्धिमान) । ४. बलं सैन्य । ५. वलयामास=(वल =जवादि, सेट् वलते-पाछा वळवू) । ६. हेरिक: जासूस ।