SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ७ प्रस्तुतपुस्तिकायास्सम्पादकाः पूज्यपाद - पंन्यास श्री-वज्रसेनविजयजी गुरुवर्याश्चिरकालेनैतादृश्याः कस्याश्चिदनुपमायाः कृत्याः सृष्टयर्थम् समुत्सुका आसन्नेव । तावत्पुनर्यथा प्रकाशाय घृत-वर्ति विद्युच्छलाकापात्रेषु प्राप्तेषु एतत्कार्यम् सुकरम्भवेत्तथा पूज्यपादानामन्तस्थलस्येयमुरभावनाऽपि योग्यसहायकर्तृभिस्सफलीभवेदिति अज्ञायि । धर्मनगरी - पत्तनस्थितबहुश्रुतसम्पन्न - पण्डित श्री चन्द्रकान्त- महोदयस्य सूक्ष्मेक्षिका, श्री डीसा - सङ्घस्यार्थिक-सम्पूर्ण सहायश्चेति प्रेरकालम्बनेन सम्पादकपरमर्षिर्न केवलन्निश्चितः किन्तूत्कण्ठितऽप्यबोभूयत । विषयप्रवाहेऽवगाहनम् अधुना यदा विज्ञानधर्मम्पुरस्कृत्य विकासस्यमिषेण प्रत्यहन्निःसीमम् वाचनम्प्रादुर्भवति तदाध्यात्मिक विकासस्यौजः प्रसारयन्ती पूर्वकालितसत्पुरुषाणाम्प्रोज्ज्वलयशोगीतिर्न केवलं स्मृतिपथे किन्तु चिरञ्जीवकरणस्यैकप्रयत्नरूपेण अध्ययनकक्षेऽग्रगमनकरणलक्ष्यबिन्दुनैव इयङ्कृतिरा- . कृतिरूपेण निर्माप्यते ॥ श्रीप्रसन्नचन्द्रराजर्षिः, श्रीअतिमुक्तकमुनिरित्यादिमुनिप्रवराणां सुभद्राएवन्नर्मदासुन्दरीप्रभृति बह्वीनाम्महासतीनाङ्कथा श्रेणी अस्याम् पुस्तिकायां सङ्गृहीतास्ति ॥ यथा-अनुप्राकृतविज्ञानपाठमालाध्ययनम् एतद्विषये ( प्राकृत विषये ) प्रगत्यर्थम्-बालावबोधार्थञ्च "पाइअविन्नाण कहा " १-२ प्रकाशितास्ति या लघुभिःकथानकैः प्राकृतभाषाया बोधं सुकरङ्कारयति - तथैव संस्कृतभाषाया अपि प्रथमामध्यमयोः प्राथमिकाध्ययनस्य पश्चात्प्राकृतवद् बालावबोधकारिका काऽपि सुकरपुस्तिका साम्प्रतकाले प्रायोऽनुपलब्धा, इति हेतोः प्रथमामध्यमयोरध्ययनपश्चादारम्भे यन्महाकाव्यवाचनण्टीकावाचनञ्च तत्सूर्यप्रकाशे तारकगणना तुल्यमभवत् इति हेतोर्ज्ञानपिपासूनामुत्साहो मूर्तिमान्भवे
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy