________________
३८ • सुलभ-चरित्राणि एकदा राज्ञा कामरूपदेशाधीशं सुदुर्जयं३२ मत्वा तज्जयार्थं वङ्कचूल: समादिष्टः, तदा सोऽपि नृपादेशात् तत्र गत्वा युद्धं कृत्वा कामरूपेशं विजित्य स्वयं च वैरिकृतशस्त्रप्रहारैर्जर्जर:३३ सन् उज्जयिनी पुरी समाजगाम । तत्र च राजैतत्पीड्या पीडितेन बहून् वैद्यानाकार्य तैरस्य चिकित्सा कारिता । परं कथमपि प्रहारा न संहिता:३४, तदा राज्ञा सरोषं पृष्टद्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तम्, तत् श्रुत्वा राजा वङ्कचूलं गाढमालिङ्ग्य साश्रुलोचनः सन् इत्थं प्रोवाच - 'हे वत्स ! त्वदापदं छेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्याद् वृथा जाताः । अथैकं वायसामिषं भेषजं विद्यते तद् गृहाण, येन ते शरीरे सौस्थ्यं स्यात्,' स प्रोचे, 'हे नाथ ! अहं सर्वथा मांसभक्षणान्निवृत्तोऽस्मि, ततो मे वायसामिषान्न कार्यम्,' राज्ञोक्तं 'वत्स ! जीवतो जन्तोनियमा बहुशो उपाय भवेयुः, परं मृते सति सर्वे यान्ति तस्मादिदं भक्षय,' तदा स नृपोक्तं वचो निशम्य प्रोचे, 'हे नाथ ! मम जीविते स्वल्पाऽपि तृष्णा नास्ति, एकदाऽवश्यं मृत्युर्भावी, तस्माज्जीवितं याति चेत् अधुनैव यातु, परमेतदकृत्यमहं न कुर्वे, ततो राजा वङ्कचूलस्य मित्रं शालिग्रामवतिनं जिनदासश्रावकमाह्वातुं निजं नरं प्रेषीत्, सोऽपि मित्रस्नेहात् सद्यस्ततश्चलितो मार्गे च रोदनोद्यतं३५ दिव्यं स्त्रीद्वयं विलोक्य के युवां ? किं वा रुदिथः ?' इति पप्रच्छ, ताभ्यामुक्तमावां सौधमकल्पवासिन्यौ देव्यौ भर्तुश्च्यवनाद् विरहविह्वले सत्यौ वङ्कचूलाख्यं क्षत्रियं भर्तार प्रार्थयावहे, सोऽद्य त्वद्वचसा चेन्नियमं भङ्क्षयति, तर्हि आशु दुर्गतिं गन्ता, तेन सम्प्रति रुदिवः' । ततो जिनदासेनोक्तम्-'मा रोदिष्टं यद् भवत्योरिष्टं तदेव करिष्यामि' इत्युक्त्वा ते आश्वास्य स श्राद्ध उज्जयिनी समाजगाम । तत्र च तेन नृपादेशान्मित्र-मन्दिरमागत्य कुशलप्रश्नपूर्वकमौषधादिप्रवृत्तिं कुर्वता तस्य नियमेऽतिस्थिरत्वं विज्ञाय शरीरं च जर्जरीभूतं विलोक्य ३६राजादिसर्वलोकसमक्षं प्रोक्तम्, अस्य धर्म एवौषधं युक्तम्, अतोऽपरा काऽप्यौषधादिप्रवृत्तिर्न कार्या, वङ्कचूलेनापि प्रोक्तम्, हे मित्र ! यदि त्वं मयि स्नेहं दधासि तर्हि आलस्यं विहाय मे प्रान्तकालस्य शम्बलं देहि, ततस्तेनापि सम्यग् रीत्याऽऽराधना कारिता, तदा वङ्कचूलश्चतुर्विधाहारप्रत्याख्यानं कृत्वा चतुःशरणानि स्वीकृत्य पञ्चपरमेष्ठिनमस्कारं स्मरन्, सर्वजीवेषु निर्वैरतां दधत्, प्राकृतं दुष्कृतं निन्दन्, सुकृतं