________________
७२
चन्द्रराजचरित्रम् मकरध्वजनामाऽस्ति, प्रभु, तव सन्निधौ । प्रैषयच्छेष्ठिनो राजं-स्तव पौरस्य वाक्यतः ।।२४१ ।। अयं तवोज्ज्वलां कीर्ति-मुपश्लोकयति स्म च । आत्मजस्य महीपाल !, सौन्दर्यमतिदुर्लभम् ।।२४२ ।। सौन्दर्यं राजपुत्रे यत्, तच्च चित्रयति प्रजाः । रोहणे जायते किं वा, त्रपुशीशकलोहकम् ? ॥२४३।। युग्मम् प्रभो, प्रेमलानाम्नी, कन्यकाऽस्ति सुरूपिणी । तस्याः पाणिग्रहं राजं-स्तव पुत्रेण काङ्क्षति ॥२४४ ॥ यथा प्रभा भास्करण, रोहिणी शशिना यथा । तथाऽयं भविता योगः, सर्वेषां मोदकारकः ।।२४५ ।। अतोऽहं श्रेष्ठिना साक-मागतोऽस्मि तवाऽन्तिकम् । अतः परं स्वकर्तव्यं, वद भूमिपते!ऽचिरात् ।।२४६ ।। यथा सिन्धुप्रदेशस्य, तथैव नृपशेखरः । सौराष्ट्रस्याऽस्ति राजाऽयं, युवां सर्वगुणैः समौ ।। २४७ ।। अतो न विषयेऽस्मिन्नो, वाक्यं वाच्यं त्वया प्रभो! । सदृशस्य च संयोगः, सदृशे शोभतेऽधिकम्' ॥२४८ ।। इति तन्मन्त्रिणो वाक्यं, श्रुत्वा भूपोऽवदत् ततः । 'कथं मीमांसितव्येऽस्मिन्, कार्ये संत्वरते भवान् ।।२४९ ।। शैघ्याद् विरसतामेति, धैर्यात् स्वादुः प्रतीयते । अतो विचार्य कर्तव्यं, सर्वदैव विपश्चिता ।।२५० ।। १. '-शीशकमेव हि ?' इति पाठा० ।। २. 'सिंहलदेशस्य' इति पाठा० ।। ३. 'मान्योऽ-' इति पाठा० ।।