SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सर्गः २ - ७१ I अन्यान्यवार्तां कृत्वाऽथ, विमलानगरीभवम् । उदन्तं गदितुं श्रेष्ठी, प्रारेभे नृपसन्निधौ ।। २३१ ।। 'मकरध्वजनामाऽस्ति, नृपः सर्वगुणान्वितः । तदग्रेऽकथयं रूपं, राजपुत्रस्य राजपुत्रस्य विस्तृतम् ॥ २३२ ॥ यत्सौन्दर्यस्य महिम-श्रवणान्नृपतिद्रुतम् । कन्यायाः प्रेमलालक्ष्म्याः, प्रदानं हृदयेऽकरोत् ॥ २३३ ॥ अथ मां बहुमानेन समाहूय न्यवेदयत् । यथा मे कन्यकायाः स, वरः स्यात् त्वं तथा कुरु ।। २३४ ।। मदीयसचिवैः सार्धं गच्छ तत्र यदीप्सितम् । श्रीफलं विधिपूर्वकम् ।। २३५ ।। राज्ञो भवेत् तदा देयं, अतो राजन्निहाऽऽयाता, द्वारि तिष्ठन्ति मन्त्रिणः ' । इति तद्वचनं राजा, उपायनं पुरस्कृत्य, ब्रह्मेव चतुराननः । नवैर्नवैः स्तोत्रपदैः, स्तुवन्ति स्म श्रुत्वा तानाह्वयल्लघु ।। २३६ ।। नरेश्वरम् ।। २३७ ।। अथ तानासने मुख्ये, स्थातुमाज्ञामकारयत् । कुशलप्रश्नतो राजा - प्रीणयत् तान् हि मन्त्रिणः ।। २३८ ।। 'कुतः समागताः ? कुत्र, गन्तास्थ ? कस्य वा कृते ? ' । आ( अ )त्राऽऽगमनतः सर्वं कथयध्वं यथार्थतः ।। २३९ । तेषु कश्चित् पटिष्ठः स राजानं विनयान्वितः । जगाद 'शृणु राजेन्द्र !, सौराष्ट्रादागता वयम् ॥ २४० ॥ १. ‘अतो राजन् ! समागच्छ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy