________________
२८४
चन्द्रराजचरित्रम् अनेकहस्त्यश्वरथादिसङ्कलं,
बलं समादाय ययौ प्रहर्षितः ॥ १८० ॥ तदैव भूपो मदनभ्रमाभिधो,
विधाय सत्कारमनल्पमादरात् । श्रीशूरसेनाय ददौ सुतां निजा
ममात्यवर्योऽपि सुतां तथाऽऽर्पयत् ॥ १८१ ॥ स व्यूह्य कन्याद्वयमाप्तयौतुकः, .
स्वदेशमापत् किल जैतशत्रवः । अतीव हर्षान्नगरीमुपेत्य चा
ऽन्वभूदुभाभ्यां सह सौख्यसन्ततिम् ॥ १८२ ॥ अथैकदा श्रीमदनभ्रमो नृपः,
सुतान्तिकं प्रेषितवान् शुकोत्तमम् । सहर्षमाप्त्वा कुतुकाकुला च तं,
राजात्मजा क्रीडनसाधनं व्यधात् ।। १८३ ॥ कदाचिदेनं शुकमाप्तकौतुका,
प्रधानकन्या परियाचते स्म ताम् । उवाच सा तां, 'स्वपितुः सकाशतः,
___ कुतो न संमार्गयसे त्वमप्यमुम् ?' ॥ १८४ ॥ निशम्य तद्वाक्यमसौ क्रुधाकुला',
पितुः सकाशं जनमामुचद् द्रुतम् ।
१. '-ल्पमस्य हि ।' इति पाठा० ।। २. 'तदीयपुत्राय' इति पाठा० ।। ३. 'सो' इति पाठा० ।। ४. 'शुकं विशेषज्ञममोचयत् ततः । सुतानिमित्तं, परिलभ्य सा च त-मनारतं खेलति तेन सुन्दरि ।।' इति पाठा० ।। ५. '-तदैव हि' इति पाठा० ।। ६. 'क्रुधा' इति पाठा० ।।