________________
सर्गः
६
उवाच राजा 'नियतं पतिस्ते,
चन्द्रोऽस्ति सन्देहलवोऽपि नाऽत्र ।
आभापुरं यावदितोऽस्ति देशः,
सर्वस्य तस्याऽधिपतिर्ध्रुवं सः ।। १२० ।।
त्वमङ्गजा मे बहुभाग्यपूर्णा,
जामातृभावं गमितो ययाऽयम् ।
गास्यन्ति सूर्यावधि शास्त्रमध्ये,
त्वदीयकीर्तिं कवयो विशुद्धाम् ।। १२१ ॥
जायापती प्राप्य नवीनस,
नवं नवं वैषयिकं सुखं तौ ।
चिराय भोगं कुरुतः स्म नाके,
नाकेशजायापतिवन्नितान्तम्' ।। १२२ ।
अथैकदा चन्द्रनृपं नृपालो
ऽपृच्छत् समानाय्य रहस्यमेतत् ।
'जामातरत्राऽऽगमनं कथं ते ?,
२३९
कथं मदीयां तनयां व्यवाक्षीः ? ।। १२३ ।।
कथं त्वया कुक्कुटरूपमाप्तं ?,
सर्वं पुरो मे कथयस्व राजन् ! ।
अत्युत्सुकोऽहं तव वृत्तमेत
च्छ्रोतुं यशश्चन्द्रविभासिताश !' ।। १२४ ।।
चन्द्रोऽवद" न्मन्त्रबलाद् विमाता,
ममैकदा पुत्रवधूसमेता ।
१. 'स भावी ( स राजा - पाठा० ) ।। इति पाठा० ।। २. 'तौ दम्पती' इति पाठा० ।। ३. 'हि ।' इति पाठा० 11