________________
२३८
" गङ्गेव पूताचरिते ! तवाह
मत्यप्रियं प्राव्यदधं विमोहात्' ।। ११४ ।।
आषोडशाब्दं त्वयि पुत्रि ! नाहं,
स्नेहं व्यथां जातु विमोहितान्तः । तत्कुष्ठिवाक्याद् विषकन्यकां त्वा
मवेदिषं तत् परिमर्षय त्वम्' ।। ११५ ।।
पितुर्वचः सा च निशम्य तस्मै,
ममैव प्राक्कर्मविपाकतोऽद्धा,
जगाद 'ते दोषलवोऽपि नास्ति ।
मयाऽनुभूतं पुरु' दुःखजातम् ।। ११६ ।।
भोगं विना न क्षयमेति कर्म,
चन्द्रराजचरित्रम्
बुद्धवेति कस्याऽपि न दोषमत्र ।
मन्ये, पितस्ते किल पुण्ययोगात्,
प्राप्तो मया प्राणपतिः स चन्द्रः ।। ११७ ।।
यो दुर्जनस्त्वामपि दोषमुक्त्वा,
विरक्ततामानयत व्यलीकम् ।
तस्याऽपि कल्याणमथाऽस्तु येन,
प्रख्यातिरेषा भुवने ममाऽभूत् ।। ११८ ।।
पुनर्न मन्युं मयि तात ! कुर्याः,
कस्याऽपि वाक्येन विना विचारम् ।
इत्येव याचे, कुरु मे परीक्षां,
१४
पत्युर्विशिष्टस्य समक्षमेव ।। ११९ ।।
१. 'पुत्रि ! त्वमत्यन्तगुणाऽसि तेऽहं, महापराधं व्यदधां प्रमोहात् ।।' इति पाठा० ।। २. 'प्रेम' इति पाठा० ।। ३. 'सर्वं कृतं मे खलु ।।' इति पाठा० ।। ४. 'वियुक्तः' इति पाठा० ।। ५. 'प्रलापी ।' इति पाठा० ।।