SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ निजनिरुपमसद्यशो निशम्य, प्रबलमतिः खलु निह्नुतः कथं स्यात् ? । इति भवति तव प्रसादपात्रं, कथमिह मन्युमुपैषि हर्षहेतौ ।। ७२ ।। तव शिशव इह विभान्ति पौराः, क्रुदुपशमस्तत एव तेषु योग्यः ' । इति बहुविधबोधनं च राज्ञ्याः, क्रुदुदयमेव चकार पूर्वतोऽपि ।। ७३ । अतिरुषमवलोक्य वीरमत्या, गुरुतरभीतिमुपेत्य भास्करः किम् ? | निजवपुरवगोपयन्ति वाऽब्धौ, सपदि निपातमधादिवाऽपराद्रेः ।। ७४ ।। २ नहि सुखमियमाप मञ्चकेऽपि, प्रबलशुचा ननु जाग्रती निशायाम् । १८५ अपकृतिपरिचिन्तया परस्य, स्वहृदयतोऽपि रुषेव याति शान्तिः ।। ७५ ।। ३ उषसि परिसमाप्य सा स्वकृत्यं, सद उपगम्य च पौरलोकजुष्टाम् । १. 'नहि कुरु कोपमतः स्वपोतवृन्दे । इति बहु परिबोधिताऽपि राज्ञी, नहि बुबुधे निजमानहानितोऽसौ ।।' इति पाठा० ।। २. 'द्रुतमतिभीततया दिवाकरोऽपि । निजवपुरवगोपयन् महाब्धौ तमसि महीयसि निलीयते स्मेव ।।' इति पाठा० ।। ३. ' भवति न हि सुखाय शोकहेतौ, किमपि सतां हृदये प्रवर्धमाने ।।' इति पाठा०।। ४. ‘-लोकमाहूय ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy