________________
सर्गः ४
-
निष्कण्टकं समधिगम्य विशालराज्यं,
निःसाध्वसा तदनु वीरमती बुभोज ।
तस्या बलेन बलवानपि राजवर्ग,
आगत्य पादकमले प्रणनाम भीत्या ।। ७३ ।।
एवं हिमालयपतिर्ननु वीरमत्याः,
शुश्राव कीर्तिमथ हेमरथाभिधानः । योऽनेकधा परिभवं समवाप चन्द्रात्,
सैवाऽधुनाऽधिकतरोद्धतभावमाप ।। ७४ ।।
पत्रं विलिख्य सहसा नियुयोज' दूतं,
तस्याः सकाश इति हेमरथो महीपः । 'रण्डे ! तवास्मि मदमर्दयिता, न चेत् त्वं,
सन्त्यज्य राज्यमखिलं गहनं प्रयासि' ।। ७५ ।। आभापुरीं कतिपयैर्दिवसैः स दूतः,
सम्प्राप्य पत्रमददात् खलु वीरमत्याः । पत्रं प्रपठ्य सहसाऽतिरुषाऽभिभूत
१६५
सर्वाङ्गयष्टिरवदन्नृपराजमाता ।। ७६ ।।
"रे दूत ! ते किमु वदामि त्वयि प्रकोपो,
नो युज्यते मम परार्थकथाप्रसक्ते । गत्वा द्रुतं स्वनृपतिं वद यद्यसौ स्यात्,
सत्क्षत्रियस्तदिह शीघ्रमुपैतु जाल्मः ।। ७७ ।।
स्यात् क्षत्रियस्य तनयो यदि ते नृपालो,
यद्वा स्वमातुरपिबत् स्तनजं पयोऽयम् ।
१. ' त्यजति स्म' इति पाठा० ।।