SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४९ सर्गः - ३ अस्थाम ते मन्त्रिपदे नियुक्ता, वयं तथाऽप्यस्य वशेऽभवाम । लोभाद् विवाहस्य विनिश्चयं चा ऽकार्षीत् तदा सिंहलभूपतिः सः ॥ २३३ ।। असौ कुमारः कमनीयकान्ति न वेत्यदर्शाम न तं वयं हि । श्रीहिंसकोऽस्मासु महच्छलं यद्, व्यधात् तदद्यैव वयं च विद्मः ।। २३४ ।। सत्यं तवाऽने कथितं नृपाल !, नाऽसत्यमण्वप्यवतिष्ठतेऽत्र । कौटिल्यबुद्ध्या रचितं तदत्र, दोषं महान्तं गणयस्व नाथ ! ॥ २३५ ॥ विधीयतां योग्यमिह प्रभो ! न:, संक्षम्यतां दूषणमप्यदो न" । इत्थं तदीयं वचनं निशम्य, सत्योक्तितोऽस्मिन् प्रतुतोष भूपः ।। २३६ ॥ विहस्य राजा निजगाद सत्यं, वचस्त्वदीयं ननु कश्मलं न । यथार्थवाक्यानहि कस्य चेतः, प्रसीदति प्राणिवरस्य लोके ।। २३७ ।। १. 'प्रभु!' इति पाठा० ।। २. 'क्षमा न दोषस्य विधीयतां च' इति पाठा० ।। ३. 'प्राणिजनस्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy