SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सर्गः ३ मनस्विनां यद्व्यसनेषु धैर्यं, सहैव मौनेन समामनन्ति' ।। ८६ ।। यदुग्रशब्दः किल कर्णगामी, पुराऽप्रियोऽभूत् प्रिय ! ते शयालोः । तदीयरूपं प्रतिपद्य स त्वं, कथं मुहू रौषि तदेव रागात्' ।। ८७ ।। त्वदीयशब्दश्रवणं विमातुः, सुखायते वामविचेष्टिताया: । श्रवः पथे मे शितकुन्तधारा, शतायते हाऽत्र विधिर्बलीयान्' ।। ८८ । रात्रिंदिवं प्रीतिपरीतचित्ता, अबोधि राजा सकलं, परन्तु, गुणावली शोकमवाप दीर्घम् । १२१ करोतु किं हा परवांस्तदाऽसौ ।। ८९ ।। 'संवीक्ष्यतां पूरिति साऽन्यदा तं, गवाक्षजाले सुदती निधाय । तस्थौ जनालापमसौ निशम्य, पक्षी प्रियां प्रेक्ष्य भृशं शुशोच ।। ९० ।। १. 'कथं पुनस्त्वं हि तदेव वाक्यं, चोकूयसे प्राणपते ! ऽधुनाऽपि ।।' इति पाठा० ।। २. अस्य श्लोकस्थाने - 'प्राणेश ! यस्मिन् समये रसेन, शय्या - 1 -स्थितस्त्वं रमणं व्यकार्षीः ('व्यधत्था:' इति पाठा० ) । शब्दस्तदा ताम्रशिखस्य कर्णे ('यस्य' इति पाठा० ), विषायते ते श्रवणे ('हृदये' इति पाठा० ) शयालोः ।। विधेर्नियोगादधुना तदीयं रूपं तवाऽभून्नहि कर्मरेखा । केनाऽपि संचालयितुं नु शक्या, बोभूयते क्वाऽपि कदाऽपि नाथ ! ।।" इति निष्कासितौ द्वौ श्लोकौ दृश्येते ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy