SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सर्गः ३ 'अनेन किं तेऽपकृतं कृशाङ्गि !, यत्पञ्जरेऽमुं निरुणत्सि वत्से ! । यद्यप्यदः पञ्जरमस्ति हैमं, तथाऽपि कारागृहमेव चाऽस्य ।। ७६ ।। अतो विमुञ्चैनमसौ सदैव, विहिंसकः पापमतिः शकुन्तः १ । प्रभातकालेऽस्य मुखं कदापि, न पश्यति प्राज्ञतरो मनुष्यः ' ।। ७७ ।। गुणावली तद्वचनं निशम्य, प्रोवाच 'नाऽयं कृकवाकुरस्ति । पतिर्ममाऽयं समभूद् विमातुः, कोपेन पक्षी विधिवामताया: २ ।। ७८ ॥ अतोऽस्य यत्नात् परिरक्षणं हि, करोमि, मोक्ष्ये न कदाऽपि चैनम् ।' संश्रुत्य साधुः कथयाञ्चकारा 'ऽज्ञानाद् मयाऽभाणि शुभे ! तवेत्थम् ।। ७९ ।। युक्तं कृतं नैव नृपे तयेत्थं, ११९ शोकं वृथा मा कुरु राजपुत्रि ! | त्वच्छीलतोऽयं भविता मनुष्यः, पुनः प्रजापालनलब्धकीर्तिः ४ ।। ८० ।। राजा खगोऽभूत् पदमस्य चाऽन्यो, भुनक्ति, हा कर्मफलं बलीयः । १. ‘सदैव' इति पाठा० ।। २. 'क्रोधेन पक्षी मम भाग्यदोषात्' इति पाठा० ।। ३. 'वीरमत्या' इति टि० ।। ४. 'पुनर्महाराजपदप्रशास्ता' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy