________________
९६
चन्द्रराजचरित्रम् इत्येवं वनितावाक्यं, श्रुत्वा राजा ससम्भ्रमम् । जहौ कपटनिद्रां द्राक्, प्रत्युवाच प्रियां प्रति ॥४६५ ॥ 'रात्रौ वृष्टिरभूत् तस्मा-दालस्येन प्रिये ! मम । शयानस्य गतः पुण्य-मयोऽयं समयः किल ।।४६६ ॥ न ज्ञातः समयोऽस्माभिः, सूर्योऽप्युदयमागतः । अहो प्रमादवशतो, नरः किमपि वेत्ति नो ॥४६७ ॥ आलस्यजालसंमग्नाऽऽकृतिरस्ति तवाऽपि यत् । तेनाऽद्य रममाणा त्वं, क्वाऽप्यासीरिति लक्ष्यते ।।४६८ ॥ क्व क्रीडितं त्वया रात्रौ, वद तन्मे पुरः प्रिये ! । पश्चात् तत्र च संजातं, कौतुकं ब्रूहि सत्यतः' ॥४६९ ॥ इति राज्ञो वचः श्रुत्वा, देव्युवाच विशङ्किता । 'जानामि क्रीडनं नाऽहं, किञ्चिन्नाथ ! त्वया विना' ।। ४७० ॥ त्यक्त्वा त्वां च कथं यायां, त्वमेव क्वाऽपि निश्यहो । रन्तुं गत इवाऽऽभासि, निद्रया तन्द्रयाऽपि च ।।४७१ ॥ अबलाऽहं कथं रात्रौ, तवाऽऽज्ञामन्तरेण हि । बहिर्गन्तुं समर्थाऽस्मि, स्वामिन् ! सत्यं प्रतीयताम् ॥ ४७२ ।। राजा तद्वचनं श्रुत्वा-ऽचिन्तयद् वनिताऽसकौ । न वामा, किन्तु मे वामा, विमाताऽस्ति न संशयः ।। ४७३ ।। १. इतोऽग्रे- 'आकृत्यैव तवाऽऽभाति, रात्रिजागरणं प्रिये ! । विशेषतो महत् प्रेम, दृश्यते मयि तेऽद्य हि ।।' इति निष्कासितो श्लोको दृश्यते ।। २. - ऽऽकृतिस्ते भाति सम्प्रति' इति पाठा० ।। ३. 'राजवचः' इति पाठा० ।। ४. 'मया नहि' इति पाठा० ।। ५. 'जानामि क्रीडनं स्वामिंस्तव पादसरो-रुहम्' इति पाठा० ।। ६. 'विहाय त्वां कथं' इति पाठा० ।।