SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ९५ सर्गः - २ गुणावली समागत्य, पतिमालोक्य निद्रितम् । 'अहो पापीयसी श्वश्रूः, पतिं मे स्वापयत्यसौ' ।।४५६ ।। विचिन्त्यैवं निजं कान्तं, ताडयामास शाखया । राजाऽऽलस्यपरीताङ्ग, इव तस्थौ निजासने ।।४५७ ।। मुग्धेव राज्ञी राजान-मुवाच मधुरस्वरैः । 'स्वामिन् ! गता निशा प्रात-र्जातं सम्प्रति बुध्यताम् ।।४५८ ।। प्रभातं सूचयन् दिक्षु, रवीति चरणायुधः । उत्तिष्ठाऽतो न मतिमा-छेते सूर्योदये सति ॥४५९ ।। सूर्योदये शयानस्य, तन्द्रालोः पुरुषस्य हि । वीर्यधैर्ये न भवत-स्तस्माज्जागृहि मे प्रभो ! ।।४६० ।। निरुद्यमो जनः सर्वं, निद्रया गमयत्यहः । प्राभातिकोऽयं समयो, महापुण्यमयः सदा ॥४६१ ।। उत्तिष्ठ नाथ ! सूर्योऽपि, समागादुदयाचले ।। प्राभातिकं मुखाब्जं स्वं, दर्शयस्व ममाऽधुना ॥४६२ ।। अहं गङ्गाजलैः पूर्ण, भृङ्गारं धारयामि ते । आचम्यतां प्रभो ! राज्ञो, व्यायामसमयोऽधुना ॥४६३ ।। आर्यपुत्र ! प्रबुध्यस्व, सभां कर्तुं क्षणस्तव । अयं चेच्छृणुयान्माता, क्रोधं त्वयि विधास्यति' ।।४६४ ।। १. 'अयं जागर्ति सर्वस्मात्, प्रथमं चरणायुधः ।' इति पाठा० ।। २. इतोऽग्रे"नाथ ! रात्रिरियं व्यर्थं, विलासेन विनाऽगमत् । अशयानैव या सर्वा, निशेयं गमिता मया ।। बोधितोऽपि मया शश्वन्नाबुद्धाः प्रियवल्लभ !। अस्वस्थता ते किं वाऽन्यां पर्यणैषीः कुमारिकाम् ।।" इति निष्कासितौ द्वौ श्लोकौ दृश्यते।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy