SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ॥४॥ ॥४ ९. सकललब्धिनिधान-गौतमस्वाम्यष्टकम् । (ललित-वृत्तम् ) महिमशालिनं विश्वतारकं, गुणगणालयं गीतगौरवम् । सकललब्धिभृद्योगिनं स्तुवे, गणधरोत्तमं गौतमप्रभुम् ॥१॥ चरमतीर्थकृत्पभास्करो, मुनिततीडितः कामितप्रदः । सुरवरैर्नुतस्तेजसान्निधि-विजयतेतरां गौतमेश्वरः ॥२॥ चरितमद्भुतं ते दयानिधे ! जडमतिः कथं स्तोतुमुत्सहे ?। तव कराम्बुजाद् दीक्षिताः समे, मुनिवरा ययुर्मुक्तिमन्दिरम् ॥३॥ भविकतायिनं मुक्तिदायिनं, कुमतनाशिनं तत्त्वपायिनम् । पतितपावनं भाविराजितं, प्रणिदधेऽन्वहं गौतमेश्वरम् गणभृदग्रणीः श्रेयसां पदं, हितकरो नृणां पापनाशकः । विमलदर्शनः कर्मजित्वरो, विजयतेतरां गौतमेश्वरः ॥५॥ नमनतस्त्वयि श्रीगणाधिप !, सकलकल्मषं नश्यति ध्रुवम् ! पवितनाम ते यत्र राजते, भवति तत्र नो विघ्नकल्पना ॥६॥ गिरिवरे गतोऽष्टापदे भवान्, भगवतोऽचितुं स्वीयशक्तितः । अतुलसारवन् ! नाथ ! ते गुणान्, गणयितुं क्षितौ केन पार्यते ? ॥७॥ तव पदाम्बुजे वन्दना सदा, भवतु मे प्रभो ! योगिसत्तम ! तव प्रभावतो मंगलावलि-मम दिने दिने देव ! जायताम् ॥८॥ अष्टकं गौतमेशस्य, सर्वसिद्धिप्रदायकम् । रचितं हेमचन्द्रेण, गुरुदेवांहिसेविना ॥ विज्ञप्त्या निजशिष्यस्य प्रद्युम्नाख्यमुनेर्मया । पारेखचीमनभ्रातुः पाठाय लिखिता स्तुतिः ॥ रचना : सं. २०२० सकललब्धिनिधान-गौतमस्वाम्यष्टकम् 21
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy