SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तव पदयुगे श्रेयोभूते सदा मम जायतां, नतिरविरतं पुण्यैर्लभ्ये सुलब्धिनिधानके । निखिलभुवने तद्धि स्यात्कि न यत्तव नामतो, भवति सफलं कार्यं नृणां हृदा परिचिन्तितम् ॥५॥ सुकृतविटपी मेऽद्य स्वामिन् ! प्रभूतफलोऽभवत्, दुरितततयो दूरं दूरं ममाऽद्य पलायिताः । हृदि निरवधिहर्षाम्भोधिः समुच्छलितोऽद्य मे, विमलविमलं यत्ते जातं मुखाम्बुजदर्शनम् ॥६॥ तव निरुपमं रूपं दृष्ट्वाऽक्षिणी मम नृत्यतस्तव सुचरितं श्रावं श्रावं मनो मम हृष्यति । तव गुणगणं गायं गायं मुदं रसनैति मे, तव सुवचनं पायं पायं कृतार्थमभूज्जनुः ॥७॥ गणधरमणे ! त्वत्पादाब्जे विनम्य निवेदये, नहि नहि कदाप्यस्मत्स्वान्तात् क्षणं वियुतो भव । वितरति मतिं त्वसान्निध्यं व्यपोहति दुर्मति, जनयति मनः सर्वाभीष्टं तनोति निरीहताम् ॥८॥ . ललितहरिणी-छन्दोयोगादिदं हि गुणाष्टकं, विरचितमिति स्फूर्जद्भक्त्या वरेण्यगणेशितुः । गुरुवरपदाम्भोजद्वन्द्वार्चनाप्तधिया मया, प्रथमगणभृत्-मन्त्रध्यात्रा सुवर्णसुधांशुना ॥९॥ 20 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy