SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अपि च, गुरुपरुषवचनेन तिरस्कृता जना महत्त्वं प्राप्नुवन्तीति वचनं पण्डितराजजगन्नाथेनाऽपि स्वरचितभामिनीविलासे 'गीभि' रिति श्लोकेन समर्थितम् । अयमेवाऽस्ति स श्लोकः गीभिर्गुरूणां परुषाक्षराभि-स्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलो मणयो विशन्ति ॥ मुनिमेरुविजयः पूज्यशासनसम्राड्गुरुभगवतां सन्निधौ प्रतिदिनं किरातमभ्यस्यमानः कियता कालेन द्वात्रिंशत्तमश्लोकपर्यन्तं पठितवान् । ततो द्वितीयदिने पुस्तकमादाय नियतसमये पूज्यानां समीपे पठनायाऽऽगतं मुनिमेरुविजयं ते हि पूज्याः कथयामासुः - "अथ मम पार्वे पठनाय त्वया नैवाऽऽगन्तव्यम् । अग्रेतनं काव्यं स्वयमेव पठितव्यम् । सर्वेषु विषयेषु तव शेमुष्यस्खलितप्रचारा प्रवर्तिष्यते ।" पूज्यानामेतादृशाशीर्वादस्तेषां खलु जीवने पूर्णरूपेण फलितोऽभवदिति शम् ॥ पूज्यपादशासनसम्राट् श्रीपरमगुरुभगवतां प्रथम दर्शनम् 255
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy