SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ततः परेधुर्विमले प्रभाते, श्रीसिद्धक्रार्चनमारभन्त । यस्मिन्कृते सिद्धयति सर्वमिष्टं, श्रीपालवच्छ्रद्दधतां नराणाम् ॥१०३॥ उपजातिः वीशस्थानकपूजनं शुभचतुर्दश्यां गुरोर्वासरे, सम्यक्त्वाद्युपलब्धिहेतु विधिवत्प्रापद्धि संपन्नताम् । प्रातः श्रीध्वजदण्डयोश्च कलशस्यासेचनं पूजनम्, शुक्रे जातममातिथौ निगदितं शास्त्रे यथा तत्तथा ॥१०४॥ शार्दूल० शुक्ले वह्नितिथौ शनौ परिकरे पूजाऽभवत्फाल्गुने, जाताऽष्टादशसंख्यया भगवतः शस्ताभिषेकक्रिया । अन्येद्यू रविवासरे प्रथमतश्चैत्याभिषेकः कृतः, मध्याह्ने जिनभक्तिरक्तहृदयैः पूजा वरा पाठिता ॥१०५॥ शार्दूलविक्रीडितम् बृहन्नन्द्यावर्तप्रथितशुभपूजाऽतिरुचिरा, तृतीयायान्तिथ्यां शशधरदिने मङ्गलमये । चतुर्थ्यां भौमेऽह्नि प्रवररथयात्राऽजनि मुदे, जनानां भव्यानामनुपमसुखाऽऽस्वादजनिका ॥१०६॥ शिखरिणी बुधे पञ्चभ्यां सा प्रथमसमये सूरिविहिता, प्रतिष्ठा सञ्जाता जिनपतिगृहे पूर्णफलदा । बृहच्छान्तिस्नानं विजयिनि मुहूर्ते समभवत्, क्रमेणेत्थं पूर्णो ह्ययमिहमहः सौख्यजनकः ॥१०७॥ शिखरिणी शुभे वीरसंवत्सरे संप्रपन्ने, ग्रहय॑ब्धिनेत्रे तथा वैक्रमेऽब्दे । ग्रहाकाशखाक्ष्यन्विते फाल्गुनेऽभूत्, प्रतिष्ठा सितेऽहेस्तिथौ चन्द्रपुत्रे ॥१०८॥ भुजङ्गप्रयातम् श्रीकीर्तिकल्लोलकाव्यम् 187
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy