SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पादौ प्रगृह्योदयसूरिराजं प्रस्थाप्य शीघ्रं पुरतः प्रतस्थे । आदाय ताँस्तान्विहिताँस्तु वस्तू- नानन्दंकल्याणकराभिमृष्टः ॥ ७३ ॥ यास्यन्स सूरिः प्रतिकर्त्तुकामो, मूर्तेः प्रतिष्ठान्नलिनीविमाने । मार्गे निवासङ्कलयाञ्चकार, तारङ्गतीर्थे सति शेरिसादौ ॥७४॥ इन्द्रवज्रा ? संसारेऽद्भुतताम्प्रयाति च कला यन्मन्दिरे सुन्दरे, "कुम्भारी" सुगुरूपदेशधवला मार्गे कथन्त्यज्यते । हस्तुण्डीनगरीन्ततोऽन्तरगतां यान्तां स्पृशन्पद्धतौ, आयातः क्रमशस्ततस्सवसतिं सत्सादड़ीं सूरिराट् ॥ ७५ ॥ शार्दूलविक्रीडितम् इहत्त्या धर्मिष्ठा गुणिगणचराः श्रावकवराः, प्रभुं श्रीमच्चिन्तामणिजिनवरं पार्श्वमनिशम् । सुभक्त्या सेवन्ते प्रथितचरितम्मङ्गलकरम्, सदा ये सद्धर्मश्रवणकरणे बद्धमंतयः ॥ ७६ ॥ इयं साक्षी यस्याः प्रभवति विभुर्वीरभगवान्, पुरी रम्याऽऽरामैः धनिजनगृहैर्भूतिबहुलैः । सदा तस्या वृद्धिर्भवति नितरामीशकृपया - मुनीनाम्पादाब्जन्नमतिकृतकृत्त्याऽथ रजसा ॥७७॥ पुरोपकण्ठे रचितोपकार्य्या स्थितं गुरुन्ते शतशोऽभिपत्य । ध्वजाग्रहस्ताः प्रणदत्सुतूर्येष्वनन्तरागैः सहसाऽथ जग्मुः ॥७८॥ पौरा गृहद्वारिविलम्बिदाम - बद्धासु सत्तोरणदेहलीषु । पुनन्तमात्मानममुं प्रतीक्ष्य, पूजां प्रचक्रुः पुरतोऽथ निन्युः ॥ ७९ ॥ शिखरिणी उपजातिः 182 १. श्रीकुंभारीयाजी तीर्थ, २. श्रीराता महावीरजी तीर्थ । विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy