SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ माणेक भाई भगुभाई केशुभाई मयाभाई भवन्त एव कस्तूरजी चीमनभाई यत्न ङ्कर्तुं त्वरन्तां शुभकार्य सिद्धयै ॥ ६५ ॥ - उपजातिः यस्मिन्कस्मिंस्तु युष्मासु, कार्यभारः पतेद्यदि । हस्तेन वोढुं शक्तोऽसि समूहे का विचारणा ॥ ६६ ॥ , संस्थया चाल्यमानेऽस्मिन्, राणके चेद् विचारणा । गृहादानीय दीयन्ताम्बूथ यूयङ्करिष्यथ ॥६७॥ ओमित्युक्त्वाऽथ याते सकलधनपतौ संस्थयाऽऽशांनिबध्य कृत्वा संस्थासु पृच्छां सकलमतमिदन्तूर्णमुद्धोष्य यत्नात्, तीर्थोद्धारप्रवीणो मुनिगणमहितो नेमिसूरीश्वरोऽसौजीर्णोद्धारं चिकीर्षून् सपदि धनिजनान्नादिदेशात्र तीर्थे ॥६८॥ लक्षाण्यष्टावकार्षीद्व्ययमिहभवनेजीर्णमुद्धृत्य खण्डं, ग्राव्णः पूर्वं यथावत् कृतसमशकलं खण्डमन्तर्निवेश्य । द्रष्टुर्दृष्टवाऽपि दृष्टेर्नहि भवति पृथक् भावना तत्र चैत्ये, धन्यः कर्त्ताऽथ शिल्पी पुनरपिं महतामाश्रयः श्रेष्ठिवर्य्यः ॥६९॥ स्रग्धरा यः करोति चरीकर्ति, चरीकर्ता विशिष्यते । चरीकारयिता यस्स्या- दानन्त्यायोपकल्प्यते ॥७०॥ अनुष्टुप् श्रीकीर्तिकल्लोलकाव्यम् अनुष्टुप् पुरासमुत्थाप्य समग्रमूर्ति - ञ्जीर्णं समुद्धर्त्तुमितस्ततोऽगात् । यथा स्थितिङ्कर्तुमुपेतबुद्धिः कः स्थापको मे भवितोदयाय ॥ ७१ ॥ उपजाति: आस्तेऽसौ कृतधीः क्रियासु कुशलस्सिद्धान्तवाचस्पतिः, श्रीमन्नन्दनसूरिराजकलितस्तत्त्वार्थसंज्ञापकः । आचार्य्योदयसूरिवर्य्य इह चेदभ्यर्थ्यते स्याद्धितम् मत्त्वा सादडीसङ्घमुख्यमनुजा विज्ञप्तिमूचुर्भृशम् ॥७२॥ शार्दूल. 181
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy