SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिधा भूमौ, रङ्गमण्डपमण्डलम् । राजन्ते स्तम्भखचिता नृत्यन्त्यः शालभञ्जिकाः ॥१९॥अनुष्टुप् वृत्तम् शालास्वन्तः शोभमाना विभान्ति, शालामालादीपमालास्सदोऽन्तः । हाहाहाहा हास्यविस्फूर्जमानाः, शालामाला स्वर्गसोपानमाला ॥२०॥ शालिनी रङ्गद्वारसुतोरणोत्तरतलस्थाने नभोमण्डलं, प्राप्तम्पत्रमिहास्ति कल्पकतरोश्चित्रेऽतिचित्रं स्फुटम् । श्रूयन्ते बहुधाऽत्र देवतरवः पूर्वे युगे भूमिषु, नेदानीन्दिविषद्भिरेवमुषितास्तेभ्योऽपतद्यद्धृतम् ॥२१॥ शार्दूलविक्रीडितम् दिशोऽवकाशेषु दिशोऽन्तराले, प्रशान्तमुद्राः प्रविभान्ति देवाः । तदीयषट्सप्ततिदेवकुल्या, आबद्धभावाः सततञ्जयन्ति ॥२२॥ उपजातिः यावानायतकाय एष विहितस्स्वच्छावकाशङ्गतस्तावानेव ततोऽन्तरे विनिहितो भूगर्भभूतो बिलः । कालेनाऽत्यधिकेन शङ्कितमनोवाक्कायकर्माशयैः, शङ्कास्थानतयाऽधुनाऽस्ति पिहितः पञ्चावशिष्टाः कृताः ॥२३॥ एतत्प्राङ्गणशोभिवृक्षनिकटादारभ्य दिक्षु क्रमात्, प्रासादा दिविगा विभूतिभरिताः सत्तोरणैः सत्कृताः । चत्वारो द्युतिमाप्नुवन्ति परमां राजाधिराजाज्ञया, राजानो विनिवेशिताः स्वसविधे सन्मण्डलेशा यथा ॥२४॥ शार्दूलविक्रीडितम् चतुर्मुखञ्चतुर्दार-ञ्चतुस्तलविभूषितम् । मन्दिरं राजते ग्राव्णः, स्वच्छस्फटिकसन्निभम् ॥२५॥ श्रीकीर्तिकल्लोलकाव्यम् -175
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy