SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ राजनगर वास्तव्यो, धन्यो धनजी-सुराभिधो धनिकः । यत्प्रेरितो हि काश्यां, गतो गुरुः शिष्यजसकलितः ॥५॥ ऍंङ्कार-मन्त्रजापा दुपगङ्गं भारतीं समाराध्य । तस्याः स हि वरमापत्, कवित्ववाञ्छासुरद्रुसमम् ॥६॥ भट्टाचार्यसमीपे, चिन्तामण्यादिकं स समधीत्य । षड्दर्शनमर्मज्ञो, विधविधविद्यासु विज्जातः ॥७॥ न्यायविशारद - न्याया च्चार्योपाधिं हि सदसि धीराणाम् । वादे विजयप्राप्त्या, प्रीताः प्राज्ञा ददुर्यस्मै ॥ ८ ॥ कः खलु विषयोऽवन्यां, का वा भाषास्ति यत्र पूज्यानाम् । न प्रावर्तत वाणी, गद्ये पद्ये च निर्बाधा ॥९॥ प्रोन्मध्य शास्त्रसिन्धु, निजमतिमन्थेन धीरधुर्य्येण । रचिता विविधाः कृतयो, मुकुटायन्तेऽधुना विश्वे ॥१०॥ श्री यशोविजयगणिवराणां गुणानुवादस्तुतिः 89
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy