________________
७६
दशवैकालिकं-टीकात्रिकयुतम्
गतिं नरकगत्यादिरूपां बहुविधामनेकप्रकारां सर्वजीवानां जानाति, यथावस्थितजीवाजीवादिपरिज्ञानं विना गतिपरिज्ञानस्याभावात्. ।।१४।।
(सु.) साम्प्रतं धर्मफलमाह - 'जया' इत्यादि यदा यस्मिन् काले जीवान् अजीवांश्च द्वावप्येतौ विजानाति - विविधं जानाति, तदा तस्मिन् काले गतिं नरकगत्यादिरूपां बहुविधां-स्वपरगतभेदेनानेकप्रकारां तां सर्वजीवानां जानाति यथावस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ।।१४।।
जया गई बहुविहं, सव्वजीवाण जाणई ।
तया पुन्नं च पावं च, बंधं मुक्खं च जाणई ।।४.१५।।
जया पुन्नं च पावं च, बंधं मुक्खं च जाणई । तया निविंदई भोए, जे दिव्वे जे य माणुसे ||४.१६।।
(ति.) निविंते - असारत्वेन हेयतया विचारयति ।
(स.) अथ उत्तरोत्तरफलवृद्धिमाह - जयेति यदा गतिं बहुविधां सर्वजीवानां जानाति, तदा पुण्यं च पापं च बहुविधगतिनिबन्धनं तथा बन्धं जीवकर्मयोगदुःखलक्षणं. मोक्षं च जीवकर्मवियोगसुखलक्षणं जानाति ।।१५।।
जया - इति यदा पुण्यं च पापं च बन्धं च मोक्षं च जानाति, तदा निर्विन्ते मोहाभावात् सम्यग् विचारयत्यसारदुःखरूपतया कान् ? भोगान् शब्दादीन् यान् दिव्यान् यान् मानुषान्, तेभ्यो व्यतिरिक्ताः शेषाः परमार्थतो भोगा एव न भवन्ति. ।।१६।।
,
(सु.) उत्तरोत्तरां फलवृद्धिमाह - यदा गतिं बहुविधां स्वपरगतभेदेनानेकप्रकारां सर्वजीवानां जानाति तदा पुण्यं च पापं च - बहुविधगतिनिबन्धनं, तथा बन्धं-जीवकर्म्मयोग, सुख-दुःखलक्षणं, मोक्षं तद्वियोगस्वरूपावस्थानलक्षणं जानाति ।।१५।।
'जया' इत्यादि, यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति तदा निर्विन्तेमोहाभावात् सम्यग् विचारयत्यसारदुःखरूपतया भोगान्-शब्दादीन् यान् दिव्यान् यांश्च मानुषान्, शेषास्तु वस्तुतो भोगा एव न भवन्ति ।।१६।।