SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७५ चतुर्थम् अध्ययनम् तत् समाचरेत्-तत्कुर्यादित्यर्थः ।।११।। जो जीवे वि न याणइ, अज्जीवे वि न याणाइ । जीवाजीवे अयाणंतो, कह सो नाहिइ संजमं ।।४.१२।। जो जीवे वि वियाणइ, अज्जीवे वि वियाणइ । जीवाजीवे वियाणंतो, सो हु नाहिइ संजमं ।।४.१३।। (ति.) उक्तमेवार्थं 'जो जीवे वि' इत्यादि गाथा द्वयेन स्पष्ट्यन्नाह-गाथाद्वयमपि स्पष्टम् । नवरं हुरेवार्थे । नाहिइ-ज्ञास्यति ।।१२।। ।।१३।। (स.) उक्तमेव स्पष्टीकुर्वन्नाह-जो-इति-यो जीवानपि पृथिवीकायादीन् न जानाति, अजीवानपि संयमस्योपघातिनो मणिस्वर्णादीन् न जानाति, एवं जीवाजीवानजानन् कथमसौ ज्ञास्यति संयमं तत्सम्बन्धिज्ञानस्याभावात् ।।१२।। जो इति-ततश्च यो जीवानपि विजानाति; अजीवानपि विजानाति, जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति. । उपदेशाधिकारः समाप्तः ।।१३।। (सु.) उक्तमेवार्थं स्पष्टयन्नाह-'जो जीवे इत्यादि, यो जीवानपि पृथिवीकायिकादिभेदभिन्नान् न जानाति 'अजीवानपि' संयमोपघातिनो मद्यहिरण्यादीन् न जानाति, एवं जीवाजीवानजानन् कथमसौ ज्ञास्यति संयमं ? तद्विषयं तद्विषयाज्ञानादिति भावः ||१२|| ततश्च 'जो जीवे' इत्यादि, यो जीवानपि विजानाति अजीवानपि विजानाति, जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति ।।१३।। प्रतिपादितः पञ्चम उपदेशार्थाधिकारः | जया जीवमजीवे य, दो वि एए वियाणई । तया गई बहुविहं, सव्वजीवाण जाणई ।।४.१४।। (ति.) अधुना धर्मफलमाह-['जया' इत्यादि,] गइं-नरकगत्यादिकम् । (स.) सांप्रतं धर्मस्य फलमाह जयेति- 'जया इत्यादि' यदा यस्मिन् काले जीवानजीवान् द्वावप्येतौ विजानाति, अनेन प्रकारेण जानाति, तदा तस्मिन् काले
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy