SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं-टीकात्रिकयुतम् मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।५।। (सू.४.१४) (ति.) न गच्छेत्, न तिष्ठेत्, न निषीदेत्, न त्वग् वर्तयेत्, न स्वपेदित्यर्थः । करणा-ऽनुमत्यष्टपदी स्पष्टा । न समनुजानामीत्यादि प्राग्वत् ।।सू.१४ ।। (स.) न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तयेत्. एतत्सर्वं न स्वयं कुर्यात्. तथान्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न स्वापयेत्. तथान्यं स्वत एव गच्छन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ५. (सु.) न गच्छेज्जा-[इत्यादि]न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग् वर्तयेत्, तत्र गमनमन्यतोऽन्यत्र, स्थानमेकत्रैव, निषीदनं-उपवेशनं, त्वग्वर्त्तनं-स्वपनं, एतत् स्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत्, न स्थापयेत्, न निषीदयेत्, न त्वग्वर्त्तयेत्,न स्वापयेत्, तथान्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादिति पूर्ववत् ।१४।। से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहयपच्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा । (ति.) प्राग्वत् । (स) [न व्याख्यातम्] (सु.) सेऽभिक्खू वा इत्यादि यावत् जागरमाणे वत्ति पूर्ववत्, से कीडं वा, पयंगं वा, कुंथु वा, पिवीलियं वा, हत्थंसि वा, पायंसि वा, बाहुंसि वा, ऊरुंसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा, रयहरणंसि वा, गुच्छंसि वा, पडिग्गहंसि वा, कंबलंसि वा, उडगंसि वा, दंडगंसि वा, पीढंसि वा, फलगंसि वा, सिज्जंसि वा, संथारगंसि वा, अन्नयरंसि वा तहप्पगारे उवगरणजाए, तओ संजयामेव पडिलेहिय, पडिलेहिय पमज्जिय पमज्जिय, एगंतमवणिज्जा, नो णं संघायमावजिज्जा ।। (सू. ४.१५) __ (ति.) हस्तादिषु अन्यतरस्मिन् तथाप्रकारे साधुक्रियोपयोगिन्युपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितम् । ततस्तस्मात् स्थानात् संयत एव-यतनावानेव । प्रत्युपेक्ष्य प्रत्युपेक्ष्य । प्रमृज्य प्रमृज्य एकान्ते-तदनुपघातकस्थाने । अपनयेत्-परित्यजेत् ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy