SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुर्थम् अध्ययनम् (सु.) से भिक्खू वा 'इत्यादि यावत् जागरमाणे वत्ति पूर्ववदेव, से बीए वा, बीयपट्ठेसु वा, रूढेसु वा, रूढपइट्ठेसु वा, जाएसु वा, जायपइट्ठेसु वा, हरिएसु वा, हरियपइट्टेसु वा, छिन्नेसु वा, छिन्नपइट्टेसु वा, सचित्तेसु वा, सचित्तकोलपइट्टेसु वा । ६७ (ति.) इह बीजम् - शाल्यादि । बीजप्रतिष्ठितम् - बीजोपरि स्थापितं शयनासनादि, एवं सर्वत्र वेदितव्यम् । रूढानि - विरूढानि । जातानि - स्तम्बीभूतानि । हरितानिदूर्वादीनि, छिन्नानि-वृक्षाद्यङ्गान्यपरिणतानि । सचित्तानि अण्डकादीनि । कोलःघुणः, तत्प्रतिष्ठितानि - तदुपरिवर्तीनि, तेषु । (स.) से इति तथा पूर्ववद् बीजेषु वा शाल्यादिषु बीजप्रतिष्ठितेषु वा आसनशयनादिषु रूढेषु स्फुटितबीजेष्वङ्कुरितेषु, रूढप्रतिष्ठितेष्वासनशयनादिषु जातेषु वा स्तम्बीभूतेषु. जातप्रतिष्ठितेषु वा आसनशयनादिषु, हरितेषु वा दूर्वादिषु हरितप्रतिष्ठितेषु वा आसनशयनादिषु, छिन्नेषु वा परशुप्रमुखप्रहरणछिन्नवृक्षात् पृथक्स्थापितेषु, आर्द्रेष्वपरिणतेषु. छिन्नप्रतिष्ठितेषु वा छिन्नप्रतिष्ठितासनशयनेषु, सचित्तेषु वा अण्डकादिषु सचित्तकोलप्रतिनिश्रितेषु. सचित्तकोलो घुणस्तत्प्रतिनिश्रितेषु तदुपरिवर्तिषु दावा ( दूर्वा)दिषु तेषु किमित्याह (सु.) से बीएसु वा 'इत्यादि, तद्यथा - बीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिश्रितेषु वा, इह बीजं - शाल्यादि, तत्प्रतिष्ठितमासन (हार) शयनादि गृह्यते, एवं सर्वत्र वेदितव्यं, रूढानिस्फुटितबीजानि, तत्प्रतिष्ठितानि जातानि स्तम्बीभूतानि, हरितानि दूर्वादीनि, छिन्नानि - प्रहरणविशेषपरश्वादिभिर्वृक्षात् पृथक् स्थापितानि, आर्द्राण्यपरिणतानि तदङ्गानि गृह्यन्ते सचित्तानि अण्डकानि कोलो- घुणस्तत्प्रतिनिश्रितानि तदुपरिवर्त्तीनि दार्व्वा(दूर्वा)दीनि गृह्यते एतेषु किम् ? - इत्याह न गच्छिज्जा, न चिट्टिज्जा, न निसीइज्जा, न तुयट्टिज्जा, अन्नं न गच्छाविज्जा, न चिट्ठाविज्जा, न निसीयाविज्जा, न तुयट्टाविज्जा, अन्नं गच्छंतं वा, चिट्ठतं वा, निसीयंतं वा, तुयट्टंतं वा न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, १. अङ्कुरितानि १० टि. ।। S
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy