SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५४ दशवैकालिकं-टीकात्रिकयुतम् ___ (स.) अथ द्वितीयं व्रतमाह-अहावरे इति-अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद् विरमणं. सर्वं हे भदन्त ! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथाक्रोधान्नैव मृषावादं वदामीत्युक्तिः, एवं लोभाद् वा, "आद्यन्तयोर्ग्रहणे मध्यस्यापि ग्रहणम्" इति न्यायान्मान-माययोर्ग्रहणं, ततो मानाद् वा, मायाया वा, पुनर्भयाद् वा हासाद् वा, उपलक्षणत्वात् प्रेमतो वा द्वेषतो वा अभ्याख्यानादितो वा नैव मृषा स्वयं वदामि, नैव मृषाऽन्यैर्वादयामि, नैव मृषा वदतोऽप्यन्यान् समनुजानामि यावज्जीवमित्यादि पूर्ववत्. ।।२।। उक्तं द्वितीयं व्रतम् ।। (सु.) इदानीं द्वितीयमाह-'अहावरे' इति, अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद् विरमणं, सर्वं भदन्त ! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद् यथा-क्रोधाद् वा लोभाद् वा इत्यनेनाद्यन्तग्रहणात् मानमायापरिग्रहः, भयाद् वा हास्याद् वा इत्यनेन प्रेम-द्वेष-कलहा-ऽभ्याख्यानादिपरिग्रहः, नेव सयं मुसं वइज्जा त्ति, नैवं स्वयं मृषा वदामि, नैवान्यैर्मृषा वादयामि, मृषा वदतोऽप्यन्यान्न समनुजानामीत्येतद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ।४। उक्तं द्वितीयं महाव्रतम् । अहावरे तच्चे भंते महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रन्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं अदिन्नं गिहिणज्जा, नेवन्नेहिं अदिन्नं गिह्णाविज्जा, अदिन्नं गिणंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायए, काएणं, न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । तच्चे भंते महब्बए उवडिओ मि सव्वाओ अदिन्नादाणाओ वेरमणं ।।३।। (सू०४.५) (ति.) तृतीयमाह - [ ] अहावरे तच्चे [ ] अर्थः प्राग्वत्, । उक्तं तृतीयं महाव्रतम् (स.) अथ तृतीयं व्रतमाह-अहावरे इति-अथापरस्मिंस्तृतीये हे भदन्त ! महाव्रतेऽदत्तादानाद् विरमणं, सर्वं हे भदन्त ! अदत्तादानं प्रत्याख्यामीत्यादि पूर्ववत्. तद्यथा-ग्रामे वा नगरे वाऽरण्ये वा, उपलक्षणत्वात् क्षेत्रे वा प्रसिद्धान्येतानि. तथाल्पं मूल्यत एरण्डकाष्ठादिद्रव्यं, बहु वा मूल्यतो वज्रादिद्रव्यं, अणु वा प्रमाणतो वज्रादिद्रव्यं, स्थूलं वा एरण्डकाष्ठादिद्रव्यम् एतच्च चित्तवद् वा सचेतनम्, अचित्तवद् वा अचेतनं, नैव स्वयमदत्तं गृह्णामि, नैवान्यैरदत्तं ग्राहयामि, वादत्तं गृह्णतोऽप्यन्यान् समनुजानामि
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy