________________
चतुर्थम् अध्ययनम् त्रसं वा स्थावरं वा, अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनामकर्मोदयात् सूक्ष्मः, तस्य कायेन व्यापादनासम्भवात्, बादरोऽपि स्थूरः, स चैकैको द्विधा-त्रसः स्थावरश्च, सूक्ष्मत्रस:-कुन्थ्वादिः, स्थावरो-वनस्पत्यादिः, बादरस्त्रसो गवादिः, स्थावरः पृथिव्यादिः, एतान्, 'नेव सयं पाणे अतिवाएज्जत्ति नैव स्वयं प्राणिनो व्यतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि यावज्जीवमित्यादि
पूर्ववत्,
पढमे भंते महव्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं ।।१।। (सू०४.३)
(ति.) निगमनमाह-उपस्थितोऽस्मि-उप-सामीप्येन तत्परिणामापत्त्या स्थितः | इतः आरभ्य मम सर्वस्मात् प्राणातिपाताद् विरमणम् । अत्र पुनर्भदन्तग्रहणं स्वीकृतमपि व्रतं पुनर्गुरोर्निवेदितमाराधितं स्यादित्येतदर्थम् उक्तं प्रथमं महाव्रतम् ।।सूत्र-३।।
(स.) व्रतप्रतिपत्तिं पूर्णांकुर्वन्नाह-प्रथमे भदन्त ! महाव्रते उपस्थितोऽस्मि, उप सामीप्येन तस्य परिणामस्यापत्त्या स्थितः इत आरभ्य मम सर्वस्मात् प्राणातिपाताद् विरमणम् ।।१।। उक्तं प्रथमम् ।। __ (सु.) व्रतप्रतिप्रत्तिं निगमयन्नाह-प्रथमे भदन्त ! महव्वए उप-सामीप्येन तत्परिणामापत्त्या स्थितः, इत आरभ्य सर्वस्मात् प्राणातिपाताद् विरमणमिति, भदन्त ! अनेन चादिमध्यावसानेषु गुरुमनापृच्छय न किंचित्कर्तव्यं, कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवति, एतदेवाहसर्वस्मात् प्राणातिपाताद् विरमणमिति, महाव्रते उपस्थितोऽस्मि सर्वस्मात् प्राणातिपाताद्विरमणमिति ।३। उक्तं च प्रथमं महाव्रतम् ।। ___ अहावरे दुच्चे भंते महव्वए मुसावायाओ वेरमणं, सव्वं भंते मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वएज्जा, नेवन्नेहिं मुसं वायाविज्जा, मुसं वायंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । दुच्चे भंते महव्वए उवडिओ मि सव्वाओ मुसावायाओ वेरमणं ।।२।। (सू.४.४)
(ति.) द्वितीयमाह-[अहावरे दुच्चे.... मुसावायाओ वेरमणं ।।२।। सू. ४।।] अर्थः प्राग्वत् । उक्तं द्वितीयं महाव्रतम्।