________________
५०
दशवैकालिकं-टीकात्रिकयुतम् यस्येति त्रिविधो दण्ड इति गम्यते. तं त्रिविधेन करणेन. एतदेव दर्शयति-मनसा वाचा कायेन, एतेषां स्वरूपमेवम्-अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं च वस्तुतो निषेधरूपतया सूत्रेणैव दर्शयति-न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामीति. तस्य हे भदन्त ! प्रतिक्रमामीति तस्य इति अधिकृतो योऽसौ त्रिकालविषयो दण्डस्तस्य सम्बन्धेनातीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतं वा. अतीतस्यैव प्रतिक्रमणात्. भदन्तेति गुरोरामन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणी श्रुतिः, अनेनैवं ज्ञापितं-व्रतप्रतिपत्तिर्गुरुसाक्षिक्येव, प्रतिक्रमामीति भूतदण्डादहं निवर्त इत्युक्तं भवति, तस्माच्च निवृत्तिर्यदनुमतेविरमणम्. तथा निन्दामि गर्हामि, तत्र निन्दा आत्मसाक्षिकी, गर्दा परसाक्षिकी, जुगुप्सा च आत्मानमतीतदण्डकारिणमश्लाघ्यम् व्युत्सृजामीति विशेषेण भृशं च त्यजामि ।।सूत्र-२।।
(सु.) एएसिं...'एतेषां षण्णां जीवनिकायानाम् इति, "सुपां सुपो भवन्ति'[ ] इति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु अनन्तरोदितस्वरूपेषु नैव 'स्वयं' आत्मना 'दण्डं' सङ्घट्टन-परितापनादिलक्षणं, समारभेत-प्रवर्तयेत्, तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तलक्षणं समारंभयेत्-कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो न समनुजानीयात्-नानुमोदयेदिति विधायकं भगवद्वचनं, यतश्चैवमतो यावज्जीवमित्यादि यावद्व्युत्सृजामीत्येवमिदं सम्यक् प्रतिपद्यतेत्यैदम्पर्यम्, पदार्थस्तु जीवनं जीवो, यावज्जीवं-आप्राणोपरमादित्यर्थः, किमित्याह-त्रिविधं त्रिविधेनेति तिस्रो विधाः-विधानानि कृतादिरूपाणि यस्येति त्रिविधो, दण्ड इति गम्यते, तं त्रिविधेन करणेनेति, एतदेवोपन्यस्यति, मनसा वचसा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह, तत्त्वतः न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमपि अन्यं न समनुजानामीति, तस्य भदन्त ! प्रतिक्रमामि इति तस्येत्यधिकृतो दण्डः, योऽसौ त्रिकालविषयो दण्डस्तस्य संबन्धिनमतीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, प्रत्युत्पन्नस्य संवरणाद् अनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्त्रणं, भदन्त ! भवान्त ! भयान्त ! इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थं, प्रतिक्रमामीतिभूताद् दण्डान्निवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्, तदनुमतेविरमणमिति, तथा निन्दामि गरिहामीति आत्मसाक्षिकी निन्दा, परसाक्षिकी गर्हा-जुगुप्सोच्यते, आत्मानमतीतदण्डकारिणमश्लाघ्यं व्युत्सृजामीति,