SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४९ चतुर्थम् अध्ययनम् पूर्वं यः कथितः षष्ठो जीवनिकायः, पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते, तैः सर्वैरेव तीर्थकरगणधरैरिति । । सूत्र- १।। (सु.) यतश्चैवमतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेतेतियोगः । षष्ठं जीवनिकायं निगमयन्नाह - एष खलु अनन्तरोदितः कीटादिः, ‘षष्ठो जीवनिकायः' पृथिव्यादिपञ्चकायापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते-प्रकर्षेणोच्यते सर्वैरेव तीर्थकरगणधरैरिति ।। सूत्र- १।। इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दण्डं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारंभंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कायेणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( सू० ४.२) (ति.) एषां दण्डपरिजिहींषया आह- इत्येषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारम्भे, नैवान्यैर्दण्डं समारम्भये, दण्डं समारभमाणानप्यन्यान् न समनुजानामि - नानुमोदयामि, अत्र प्राकृतत्वात् सप्तमीस्थाने वर्तमानैव व्याख्येया । यावज्जीवनम्यावज्जीवा "भिदादित्वाद्" [ ] अङि यावज्जीवा, तया यावज्जीवया । त्रिविधम्करणकारणानुमतिरूपं दण्डम् । त्रिविधेन मनसा वाचा कायेन, न करोमि न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्येति पञ्चम्यर्थे षष्ठी, ततः- दण्डात् । "गुरुसाक्षिकी व्रतप्रतिपत्तिः साध्वी" इति भदन्त ! - भवान्त ! भयान्तेति गिरा गुरूनामन्त्र्य प्रतिक्रामामिनिवर्तते । इह वर्तमानक्रियया अतीतानागतप्रतिक्रमणमपि ग्राह्यम्, यष्टेर्मध्यग्रहणे आद्यन्तग्रहणवत् । निन्दामि गर्हे - इति दण्डप्रवृत्तस्यात्मन आत्मसाक्षिकी निन्दा, गुरुसाक्षिकी गर्हा-जुगुप्सा । एतद्दण्डकारिणम् - आत्मानं व्युत्सृजामि त्यजामि ।। ।। सूत्र -२ ।। (स.) एएसिमिति - एतेषां षण्णां जीवनिकायानामिति, अत्र सप्तम्यर्थे षष्ठी, तत एतेषु षट्सु जीवनिकायेषु पूर्वकथितस्वरूपेषु, नैव स्वयमात्मना दण्डं सङ्घट्टनपरितापनादिलक्षणं समारभेत प्रवर्तयेत् तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तरूपं समारम्भयेत् कारयेदित्यर्थः, दण्डं समारभमाणानपि अन्यान् प्राणिनो न समनुजानीयात्, नानुमोदयेदिति विधायकं भगवद्वचनं. यतश्चैवं ? ततो यावज्जीवमित्यादि यावद्व्युत्सृजामि यावज्जीवं यावत्प्राणधारणं तावदित्यर्थः किमित्याह - त्रिविधं त्रिविधेनेति तिस्रो विधाः कृतादिरूपा
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy